________________
आलोचनाधिकारे मूषकादीनामपि दोषोत्पत्तिरुक्ताऽस्ति, तदत्र का वृद्धि प्रति रीतिरिति प्रश्नोऽत्रोत्तरं-मुख्यवृत्त्या श्राद्धानां देवदन्यस्य विनाशन |NI एव दोषो, यथाकालमुचितव्याजदानपूर्वकं ग्रहणे तु न भूयान् दोषः, समधिकव्याजदाने पुनर्दोषाभावोऽवसीयते, तेन तेषां यत्तद्वर्जनं तन्निःशकतादिदोषपरिहारार्थ ज्ञेयं । किञ्च-श्रीजिनशासने देवद्रव्यस्य विनाशे दुर्लभवोधिता तद्रक्षादिदेशनादानोपेक्षणादौ साधोरपि भवदुःखं च शास्त्रे दर्शिते स्तः, तेन तदभिज्ञानां श्राद्धानां तस्याव्यापारणमेव यौक्तिकं, मा कदाचित्प्रमादादिना स्वल्पोऽपि तदुपभोगो भवत्विति सुस्थानस्थापनप्रत्यहंसारादिकरणपुरस्सरं महानिधानवत्तत्परिपालने च तेषामपि न कोऽपि दोषः, किन्तु तीर्थकृन्नामकर्मनिबन्धनादिहेतुर्लाभ एवेति, इतरस्य तु तद्भोगदोषानभिज्ञस्य निःशकताद्यसम्भवाद्वृद्ध्यर्थ ग्रहणकग्रहणपूर्वकं समर्पणे न दोष इति तथा व्यवह्रियमाणमस्तीति सम्भाव्यते । मूषकादिषु तु वृद्धयाद्यथै समर्पणव्यवहाराभावात्तेषां तद्भक्षणे दोष एवेति ॥ १५६॥
तथा-ससिधवला अरिहंता ' इति गाथायामहदादीनां श्वेताद्यारोपः, स किंहेतुक इति, प्रश्नोऽत्रोत्तरं-अर्हन्तः पञ्चवर्णाः सिद्धास्त्ववर्णाः शास्त्रेषु व्यक्ततयैवोक्ताः सन्ति, आचार्यादयोऽपि केवलपीतादिरूपा एव न भवन्ति, तेनैतेषु पूर्वाचार्यैवर्णक्रमेण ध्यायमानेषु श्वेताचेकैक वर्णारोपणपूर्वकमेषां ध्यानं सिद्धिकृद्भवतीति, ( तथाख्यातं ) ते तु सर्वास्वपि हि क्रियासु द्रव्यक्षेत्रकालभावादिसामग्रीविचित्रासु प्रवर्त्तन्त इति न काप्यनुपपत्तिरिति ॥ १५७ ॥
तथा-मनुजक्षेत्रे व्यवस्थितानां मनोमात्रग्राहका ऋजुमतय इति कल्पसूत्रावचूादौ, तथा प्रज्ञापनावृत्ती- मनःपर्यायज्ञानं' इदं | चार्द्धतृतीयद्वीपद्विसमुद्रान्तवर्तिसंज्ञिमनोगतद्रव्यावलम्बन ' मिति व्याख्यानानुसारेण वर्तमानानामेव संज्ञिनां मनोगतपर्यायावभासो जायत इति, तथा | च सति यदुक्तं प्रज्ञापनाटीकायां- मनःपर्यायज्ञानमपि पत्योपमासङ्ख्येयभागमतीतं जानातीति कथं सङ्गच्छत इति प्रश्नोत्रोत्तरं-वर्तिपदं मनुन
Jain Educa
t ional
For Private & Personel Use Only
jainelibrary.org