SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Jain Education तथा--' व्यञ्जनात्पञ्चमान्तस्थायाः सरूपे वा' इत्यत्रेतरेतरद्वन्द्वे स्त्रीत्वे द्विवचनं घटते, समाहारद्वन्द्वे तु नपुंस्त्वे एकवचनमुभयथापि पञ्चमान्तस्थाया इति कथं सूपपन्नमिति प्रश्नोऽत्रोत्तरं -- पञ्चमावयवयोगात्समुदायोऽप्युपचारात्पञ्चम एवमन्तस्थावयवयोगात्समुदायोऽप्यन्तस्था ततः पञ्चमश्चासौ अन्तस्था चेति कर्मधारय समासकरणादत्र सर्व्वे सूपपन्नमथवा सूत्रत्वादेवेतरेतरद्वन्द्वेऽप्येकत्वमिति ॥ १४९ ॥ तथा -- महामत्स्य भ्रूत्पन्नस्य तन्दुलमत्स्यस्य गर्भस्थितिरान्तर्मुहूर्त क्यायुः स्थितिरप्यान्तर्मुहूर्तिकी तत् कथं मिलतीति प्रश्नोऽत्रोत्तरं - महामत्स्यभ्रूत्पन्नमत्स्यस्य गभैस्थितिरायुःस्थितिश्चैकस्मिन्नेवान्तर्मुहूर्त्ते भवति, परं गर्भस्थितेरन्तर्मुहूर्त्तस्य लघुत्वान्न किमप्यनुपपन्नं, किञ्च नवसमयादारभ्य घटिकाद्वयं यावदन्तर्मुहूर्त्ते, तस्यासङ्ख्येय भेदत्वा लघुत्वमिति ॥ १५० ॥ तथा -- युगन्धर्यायेककणारम्भे भक्षणे चैकस्यैव जीवस्य हिंसा, किन्नु पर्याप्तैकजीवनिश्रितासङ्ख्याता पर्याप्तकानामपि तथा तेषामाश्रयभङ्गकृत एवोपद्रवः ? किन्नु तेषामपि हिंसेति सहेतुकं प्रसाद्यमिति प्रश्नोऽत्रोत्तरं युगन्धर्याद्येककणारम्भभक्षणयोः पर्याप्तकहिंसावत्तन्निश्रितासङ्ख्यातापर्याप्तकानामपि हिंसा सम्मवति, न तु केवलाश्रयमङ्गकृत उपद्रवः, तदवश्यंभावस्तु केवलिगम्य इति ॥ १११ ॥ तथा - ' जत्थेगो पज्जत्तो, तत्थ असंखा अपज्जत्ता ' इतिवाक्यमेकेन्द्रियादिपञ्चेन्द्रियपर्याप्त कान्तानाश्रित्य किन्न्वे केन्द्रियपर्याप्त कानाश्रित्यैवेति प्रश्नोऽत्रोत्तरं यत्रैकः पर्याप्तस्तत्र तन्निश्रया नियमादसङ्खयेया अपर्याप्ता इत्येकेन्द्रियानाश्रित्य व्याप्तिरवसेया, न तु द्वीन्द्रियादीन, प्रज्ञापनाया| मेकेन्द्रियसूत्र एव तदभिधानादिति ॥ १२ ॥ तथा—'यत्कोकिलः किल मधावि' त्यत्र यच्छन्दाये का विभक्तिः, 'तच्चारुचूते' त्यत्र तच्छन्दाग्रे च का विभक्तिः, अत्र यत्तच्छन्दाकन्ययौ वाऽनव्ययौ वेति ? प्रश्नोऽत्रोत्तरं यच्छन्दाये क्रियाविशेषणत्वे द्वितीया विभक्तिर्वाक्यार्थमात्रवाचित्वे तु प्रथमापि सम्भवति, तच्छन्दाग्रे तु For Private & Personal Use Only ainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy