SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ पं.रत्नचन्द्र १३०-१५० सेनप्रश्ने. तथा~मद्यमांसादिपानभक्षणे सम्यक्त्वक्षितये भवतो न वेति प्रश्नोत्रोत्तरं-सम्यक्त्वक्षितिर्भवतीत्येकान्तो ज्ञातो नास्तीति ॥ १४३॥ २उल्लासः तथा-समवसरणस्था देवा देव्यश्च मनुष्याणां दृग्गोचरे आयान्ति न वेति, प्रश्नोत्रोत्तरं-देवादयो दृग्गोचरे समायान्ति ॥ १४४॥ ॥३४॥ तथा-मनुष्ययोनौ द्वीन्द्रियादिनीवोत्पत्तिस्तथैव तिर्यग्योनौ कश्चिद्विशेषो वेति प्रश्नोत्रोत्तरं-तिर्यगाश्रितः कोऽपि विशेषः शास्त्रे दृष्टो नास्तीति ॥ १४५ ॥ तथा—देवलोके या आपो वनस्पतयश्च सन्ति ताः किं पृथ्वीपरिणामरूपास्तत्परिणामरूपा वा !, तत्परिणामरूपाश्चेत्तदा तासां कुत उत्पत्तिः? | तथा शुष्कानां कचवरतया जातानां निर्माल्यतापन्नानां (च) का गतिरित्यागमाक्षरपूर्वकं प्रप्ताद्यं, कल्पवृक्षाः पृथ्वीपरिणामरूपा वनस्पतिपरिणामरूपा वेति प्रश्नोऽत्रोत्तरं-आपस्तरवश्चोभयरूपाः, उत्पत्तिस्तु पद्महूदादिष्विव स्वस्वस्थानेभ्य इति, तथा निर्माल्यतापन्नशुष्कपत्रपुष्पादीनां त्वरितमेव | विस्रसातो दिव्यानुभावेन वा विशरारुताभवने न कचवरतापत्तिः, शास्त्रागमाक्षराणि तु जीवाभिगमजम्बूद्वीपप्रज्ञत्यादौ भोगभूमिवर्णनाधिकारे सन्ति, भोगभूमित्वं च देवलोकस्यापि, यथा तत्र कचवरायभावस्तथा देवेलोकेऽपि तत्त्वार्थादावुक्तमस्तीति । तथा कल्पवृक्षा वनस्पतिपरिणामरूपा ज्ञेया | | वसुदेवहिण्डौ ऋषिदत्ताधिकारे मार्गविप्रकीर्णबीजेभ्यस्तेषामुद्भवदर्शनादिति ज्ञेयम् ॥ १४५ ॥ तथा-जीवाभिगमे विजयदेववक्तव्यतायां हरितालहिङ्गुलादयः पदार्थाः सन्ति, तेषां प्रयोजने सति व्ययादुत्पत्तिः कुत इति प्रश्नो- | ऽत्रोत्तरं-हरितालादीनामुत्पत्तिर्विस्त्रसात इति ॥ १४७ ॥ तथा--उपपदं विना क्त्वाप्रत्ययस्य यवादेशो भवति न वेति, प्रश्नोऽत्रोत्तरं-अव्यये पूर्वपदे सति धातोः परस्य क्त्वाप्रत्ययस्य यबाN देशो भवति, नान्यथा, पूर्वोत्तरपदव्यवहारश्च — गतिक्वन्यस्तत्पुरुषः' इत्यादिना समासे सत्येव भवतीति ॥ १४८ ॥ Jain Education inal For Private & Personel Use Only Hallhelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy