SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Jain Educat तथा -- समासाधिकारे कर्म्मधारयसमासप्रयोजनं न प्रतिभाति, यतस्तस्य तत्पुरुषसमासात् पृथग्लक्षणाभाव इति प्रश्नोऽत्रोत्तरं -- जरती चासौ गौश्व जरद्भवी इत्यत्र कर्म्मधारयसमासत्वात् पुंवत्कर्म्मधारये ' इत्यनेन पुंवद्भावस्तत्पुरुषत्वाच्च 'गोस्तत्पुरुषादि ' त्यट् समासान्तः, टित्त्वाच्च ङीप्रत्यय इत्येकत्र समासद्वयप्रयोजनसद्भावः, तथा “विशेषणं विशेष्येणैकार्थ्यं कर्म्मधारयश्चेति पृथग् लक्षणसद्भावाच्च न काप्याशङ्केति ॥ १३८ ॥ 4 तथा - ' तृस्वसृनप्तृनेष्टृत्वष्टृक्षत्तृ होतृपोतृप्रशास्त्री ' इत्यत्र प्रशास्तुरिति कथं न जातमिति, मनोऽत्रोत्तरं - प्रशास्तृणां ऋः प्रशास्तः एवं कृते दीर्घत्वाद् ऋतो डुरि' त्यस्याप्राप्तिरित्थं वाक्यकरणं डुर्निषेधार्थमिति ॥ १३९ ॥ , तथा - मलघुवृत्तौ ' पमसदिति सूत्रावयवरूपायां एतत्सूत्रनिर्दिष्टयोश्च णषयोः परे पे णोऽसन् स्यादित्यस्य को भावः कास्मिंश्च निदर्शने विषयः १इति प्रश्नोऽत्रोत्तरं —— एतत्सूत्रनिर्देशापेक्षया णपयोर्मध्ये पकर्त्तव्ये णोऽसन् भवति, न तु णे कर्त्तव्ये ष इति, तत्र षे कर्त्तव्य णोऽसन् यथा प्रनष्ट इत्यत्र ' यजसृजमृजराजभ्राजेति षत्वे कर्त्तव्ये 'नशश्श' इति णत्वसूत्रमसत्तेन प्रथमं षः, कृते च षत्वे शकारान्तत्वाभावात्वं न भवति कर्त्तव् चषोऽसन्न भवति यथाऽभिपुणोत्यत्र ' रघुवर्णेति णत्वे कर्त्तव्ये ' उपसर्गात्सुगि 'ति सूत्रविहितं षत्वमसन्न भवति तेन णत्वं सिद्धमिति ॥ १४० ॥ तथा - ' षणमसदिति ' च सूत्रं कथं न कृतं इत्यपि प्रश्नोऽत्रोत्तरं - - सूत्रपाठे 'नाम्यन्तस्था कवर्गे'त्यादीनि पूर्व्वसूत्राणि, 'रषूवर्णानो ण' त्यादीनि तु परसूत्राणि, तेन णषमसदिति निर्देशकरणादिति ज्ञापितं यन्नाम्यन्तस्थाकवर्गेत्यादीनि पूर्व (पर) सूत्राणि रपृवर्णानो णेत्यादीनि तु पर (पूर्व) सूत्राणीति, तत्फलं च पूर्व्वप्रश्नोत्तरे दर्शितमेवेति ॥ १४१ ॥ तथा - लिङ्गानुशासनादिसूत्रे पुंलिङ्गं कटणेति पुंल्लिंगामिति पुंलिङ्गमिति वा युक्तमिति, प्रश्नोऽत्रोत्तरं --' तौ मुमो व्यञ्जने स्वौ' इति सूत्रेणानुस्वारानुनासिकावुभावपि स्त इति ॥ १४२ ॥ national For Private & Personal Use Only w.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy