________________
॥३३॥
सेनप्रों
क्या-अप्रतिष्ठितजिनविम्बमर्चयतः पादादिनाऽऽशातयतो वा लाभालाभौ न वेति !, लाभश्चेत्तर्हि प्रतिष्ठायाः किं प्रयोजनं इति प्रश्नोत्रो- पं.रत्नचन्द्र २उल्लासः
तरं--अप्रतिष्ठितप्रतिमानां वन्दने व्यवहारो नास्तीति कथं लाभः!, आशातनाकरणे तु प्रत्यवायो भवत्येव, तासु तीर्थकराकारोपलम्भादिति ॥१३३॥
तथा--द्वादशजल्पपट्टे श्रीहीरविजयसूरिप्रसादितप्रश्नोत्तरग्रन्थे च मार्गानुसारीति कोऽर्थः !, असहपरित्यागेन तत्त्वप्रतिपत्तिानुसारितेति वन्दारुवृत्तिगतोऽर्थः स एव ग्राह्योऽन्यो वेति ! प्रश्नोऽत्रोत्तरं-अभयदानादौ यस्मिन् धर्मकृत्येऽसद्हो नास्ति तद्धर्मकृत्यं माानुसारि, यत्र त्वसदहस्तन्न मार्गानुसारीति ज्ञातमस्ति, तथा “ मग्गो आगमनीई, अहवा संविग्गबहुमणाइन्नं । उभयाणुसारिणी जा सा मम्गणुसारिणी किरिआ॥ १॥ श्रीदेवेन्द्रसूीरकृतधर्मरत्नप्रकरणवृत्तावस्या गाथायाः सविस्तरं व्याख्यानमस्तीति ॥ १३४ ॥
तथा--आवश्यकोत्तराध्ययनादियोगेषु पत्तनीयमुद्गगोधूममोदकान् केचन गृह्णन्ति, केचन नेति प्रश्नोत्रोत्तरं-न गृह्ण-IN न्तीति वृद्धपरस्पगस्तीति ॥ १३५ ॥
तथा-हैमव्याकरणे 'व्यञ्जनात्पश्चमान्तस्थायाः' इत्यत्र समाहारत्वात्कथं स्त्रीलिङ्गत्व, यतः 'क्लीवे हस्व' इत्यनेन इस्वत्वं प्राप्नोतीप्रति प्रश्नोऽत्रोत्तरं-सूत्रत्वादेव न इस्वत्वमिति बोध्यम् ॥ १३६ ॥ | तथा-'दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान्' इत्यत्रान्तग्रहणं किमर्थ ! षष्ठया निर्दिष्टं तदन्तस्ये त्यनेनैव सिद्धेरिति प्रश्नोत्रोचरं'अनेकवणः सर्वस्येति परिभाषया सर्वस्याप्यादेशः स्यादित्यन्तग्रहणं, किञ्चैतत्सूत्रन्यासोक्तं यथा ननु दध्यस्थिसक्थ्यक्ष्णोऽन् स्यादिति क्रियतां ॥ किमन्तग्रहणेन, सत्य, अन्तग्रहणाभावे 'अनन्तः पञ्चम्याः प्रत्यय' इत्यनेन अन् इत्यस्य प्रत्ययसंज्ञा स्यात्, तथा च 'अनोऽस्येति अलोपे नस्य | व्यञ्जनादित्वात् नामसिदय्व्यञ्जने इत्यनेन पदत्वे दना इत्यत्र धुटस्तृतीय इति धस्य दत्वं स्यादित्यन्तग्रहणं, तद्ग्रहणे च प्रत्ययसंज्ञा न स्यात् १३७
Jain Educati
o
n
For Private
Personal Use Only
jainelibrary.org