SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Jain Education तथा --- अनादिनिगोदमध्ये यथा भव्यस्य ज्ञानदर्शनचारित्राणां सत्ता तथाऽभव्यस्य भवति न वेति प्रश्नोऽत्रोत्तरं - अभव्यस्य ज्ञानादिसत्ता भवति, परमभव्यतया सामग्रीसद्भावेऽपि न प्रकटीभवति, भव्यस्य तु तद्योगे सा प्रकटस्यिादिति ॥ १२८ ॥ तथा - नातिनपुंसकगर्भजतिर्यङ्मनुष्यमध्ये सम्यक्त्वं प्राप्यते नवेति प्रश्नोऽत्रोत्तरं - नातिनपुंसकमध्ये सम्यक्त्वं देशविरतिश्च प्राप्यत इति आवश्यकादावस्तीति ॥ १२९ ॥ अथ पण्डितरत्नचन्द्रगणिकृतप्रश्नास्तदुत्तराणि च । यथा— यत्सम्बन्धिप्रतिष्ठितं जिनबिम्बं वन्द्यं, तर्हि ते कथं न वन्द्या इति ? प्रश्नोऽत्रोत्तरं - " पासत्थो ओसन्नो, कुसीलसंसत्तओ अहाच्छंदो । दुग दुगतिदु णेगविहा, अवंदणिज्जा जिणमयंमि " ॥ १ ॥ इत्यादिवचनात्तेषामवन्यस्वं प्रतिमानां त्वन्यतीर्थिकपरिगृहीतप्रतिमाव्यतिरेकेणान्यासां वन्द्यत्वमस्तीति ॥ १३० ॥ तथा— अभिनिवेशमिथ्यादृक्प्रतिष्ठितं जिनबिम्बं वन्द्यतां प्राप्तं तत्र किं बीजमिति प्रश्नोऽत्रोत्तरं - आत्मपूर्व्वसूरिभिस्तद्वन्दनादौ अनिवारणमेव बीजं, किञ्च - शास्त्रेऽभिनिवेशमिथ्यादृष्टित्वं निह्नवानां प्रोक्तं साम्प्रतीनास्तु मतिनो दिगम्बरं विहाय निह्नवा इति न व्यवहियन्ते, तथैव गुर्व्वादीनामाज्ञासद्भावादिति ॥ १३१ ॥ तथा - पञ्चदशस्वपि कर्म्मभूमिषु संवत्सरायनमा सतिथिनामान्यमून्येवोत विशेषः तथा-- वर्षादि ऋतुभावेपि साम्यं उत कश्चिद्विशेष इति, प्रश्नोऽत्रोत्तरं यथाऽत्र संवत्सरादिनामानि तथाऽन्यत्रापीति विज्ञायते, एवं वर्षादिऋतुभावेऽपीति ॥ १३२ ॥ For Private & Personal Use Only ainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy