SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सेनप्रश्ने २उल्लासः ॥३२॥ तथा–पाक्षिकप्रतिक्रमणे क्षुत् कदा निवार्यते इति प्रश्नोत्रोत्तरं-चैत्यवन्दनादित आरभ्य शान्ति यावत्क्षुन्निवार्यत पं.विष्ण्वर्षिः ११९-१२९ इति परम्पराऽस्ति ॥ १२१ ॥ तथा-आश्विनास्वाध्यायमध्ये कृततपसो दिनत्रयमथवा द्वादश दिनान्युपधानालोचनायामन्यालोचनायां वा न समायान्ति ! इति |प्रश्नोऽत्रोत्तरं-सप्तम्यादिदिनत्रयं गणनायां नायातीति ॥ १२२॥ तथा-पुनर्दीक्षितस्य प्रज्ञांशदत्ताऽऽलोचना शुद्धयति न वेति प्रश्नोत्रोत्तरं-योग्यतासद्भावे गुज्ञिापूर्वकं शुद्धयतीति ॥ १२३॥ तथा—सिंहादिसङ्क्रान्तित्रयमध्ये तथा वर्तिकमासमध्ये च कानि धर्मकार्याणि शुद्धयन्ति ! कानि नेति प्रश्नोत्रोत्तरं--दीक्षाप्रतिष्ठादिकं न शुद्धयति, अन्यानि तु शुद्धचन्तीति ॥ १२४ ॥ तथा—जिनालये धौतिढौकनं करोति तत्कस्मिन् सूत्रे प्रकरणे वाऽस्ति, तथा कुमतिन इत्थं कथयन्ति-धौतिढौकनं देवनिर्माल्यं जायते, IN तस्य पुष्पादि लात्वा कथं चटापयन्तीति प्रश्नोऽत्रोत्तरं-धौतिढौकनमिति परम्परा ज्ञायते, तथा तन्निर्माल्यं न कथ्यते, यतो ' भोगविणटुं दव्वं निम्मलं विति गीअत्या' इति श्राद्धविधिवृत्तावुक्तत्वादिति ॥ १२५ ॥ तथा—स्वाध्यायचतुष्कं प्रत्यहं प्रोक्तमस्ति, तन्मध्ये कस्यचिदादौ क्षमाश्रमणद्वयं सज्झाय संदिसावु सज्झाय करुं इति, कस्यचित्त्वेकं समाय करु इति, तस्य को हेतुरिति प्रश्नोऽत्रोत्तरं-तद्धेतुर्वृद्धाज्ञैवेति ज्ञायते ॥ १२६ ॥ तथा--आराधनप्रकरणं श्रीसोमप्रभमूरिभिः कृतं, तत् कस्य ग्रन्थस्यानुसारेणेति ! प्रश्नोऽत्रोत्तरं--आराधनापताकाचतुश्शरणादि| ग्रन्थस्यानुसारेण कृते (तप्ति) ति ॥ १२७ ॥ Join Education a l For Private & Personal Use Only Linelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy