SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ आत्माङ्गुलेन चतुरशीत्यङ्ग-लप्रमाणश्चतुरशीतिद्विगुणीकरणेऽष्टषष्टयधिकशतमुत्सेधाङ्गुलानां भवतीति न किञ्चिदनुपपन्नमेतदाश्रित्य विस्तरस्तु सङ्ग्रहणीवृत्तावस्ति ॥ ११५ ॥ तथा-साधुभिर्वसतिप्रमार्जनानन्तरं श्राद्धाः प्रतिलेखनां कुर्वन्ति, तदा पुनरपि श्राद्धानां वसतिप्रमार्जनं मृग्यते न वेति प्रश्नोऽत्रोत्तरं-14 IN | यतिभिर्वसतिप्रमार्जनानन्तरं श्राद्धानां प्रतिलेखनाकरणे काजकोद्धरणं कृतं विलोक्यत इति ॥ ११६ ॥ | तथा–दशाणभद्राधिकारे हस्तिमुखादिविकुळणा किमिन्द्रेण कृता किमुतैरावणदेवेन वेति प्रश्नोत्रोत्तरं-आवश्यकचूयाद्यनुसारेण MI हस्तिमुखादिसर्वमिन्द्रादेशादैरावणेन विचक्रे, आवश्यकतृत्त्यायनुसारेण तु तत्सर्व स्वयं बिडौजसेति ॥ ११ ॥ तथा-प्रसूतापत्या स्त्री कटकमतीनां मासं यावन्न सङ्घट्टयति कस्यापि, न करोति च रन्धनक्रियां, आत्मीयानां तु दिनदशकं यावत्, तत्किमिति प्रश्नोऽत्रोत्तर-प्रसूतापत्या स्त्री सङ्घट्टनादि दश दिनानि न करोतीति लोकरीतिः, तत्रापि देशविशेषे क्वचिन्यूनाधिकत्वमपि ॥११॥ अथ पण्डितविष्ण्वर्षिगणिकृतप्रश्नास्तदुत्तराणि च यथा-सप्तदशभेदपूजाकरणं दिवसे शुद्धयति किं वा रात्रावपीति ! प्रश्नोत्रोत्तरं-सप्तदशभेदपूजाकरणं दिवस एव शुद्धयति, न तु रात्रौ, तीर्थादौ तु कदाचित् पूजाकरणं, तत्तु कारणिकमिति ॥ ११९ ॥ तथा-पाक्षिकप्रतिक्रमणमुखवत्रिकाप्रतिलेखनानन्तरं पौषधिकं विना प्रतिक्रमणसूत्रादेशो दत्तो शुद्धयति न वा इति ! प्रश्नोत्रोत्तरंमुख्यवृत्त्या पौषधिकस्य दीयते इदृशं वृद्धवचोऽस्ति, परमेकान्तो ज्ञातो नास्तीति ॥ १२० ॥ For Private Personel Use Only A jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy