________________
Jain Educatio
तथा--यथा तिरश्चां गुरुसमक्षं प्रायश्चित्तं विनाऽपि शुद्धिर्जायते, तथा नृणां सा कथं न भवतीति प्रश्नोऽत्रोत्तरं - तिरश्वां गुरुसमक्षं प्रायश्चित्तं विना शुद्धिर्भवति, तथाविधसामग्र्यभावात्, मनुष्याणां प्रायः तथाविधसामग्रीसद्भावात् तद्विना न शुद्धि; अत एव गुर्व्वाद्ययोगे तत्परिणामवतां तदग्रहणेऽपि शुद्धिः, तद्योगे च तद्गृह्णतां तत्परिणामाभावाद शुद्धिरिति ॥ १०६ ॥
तथा - विदिक्स्थाकाशप्रदेशानां दिवस्थाकाशप्रदेशस्पर्शनं भवति न वा १, यदि भवति तदैकाकाशप्रदेशस्याष्टप्रदेशस्पर्शना भवति, शास्त्रे च षट्प्रदेशस्पर्शनोक्ता तथा न भवति तदा अन्तरा किमस्तीति सयुक्तिकं प्रसाद्यमिति, प्रश्नोऽत्रोत्तरं - आकाशप्रदेशानां विदिक्स्थाकाशप्रदेशैः सर्वथा सम्बन्धो न भवति दिवस्थाकाशप्रदेशैरेव तत्पर्यवसानात्, अयं चार्थे द्वित्रादिपङ्किमण्डिताभिस्सम्यक् समकोणचतुरस्त्र यष्टिष्टकाभिस्सुबोधो भवतीति ॥ १०७ ॥
अथ पण्डितन गर्विगणिकृतप्रश्नास्तदुत्तराणि च
यथा --- उत्कालित दुग्धमध्ये प्रक्षिप्तगोधूमादिचूर्णचिप्पटिकया तद्दुग्धं निर्विकृतिकं स्यान्न वेति प्रश्नोऽत्रोत्तरं - गोधूमादिचूर्णे प्रक्षिप्ते सति यद्दुग्धमेकरसं वर्णान्तरादिप्राप्तं च भवति तन्निर्विकृतिकं भवतीति ॥ १०८ ॥
तथा - निर्विकृतिक दुग्धनं दधि निर्विकृतिकं विकृतिवेति प्रश्नोऽत्रोत्तरं एवंविधं दुग्धजं दध्यपि निर्विकृतिकं स्यात् ॥ १०९ ॥ तथा - क्षणतापनसमये प्रक्षिप्तचूर्णचिप्पटिकं घृतं निर्विकृतिकं विकृतिकं देति प्रश्नोऽत्रोत्तरं तद् घृतं निर्विकृतिकं न स्यादिति यतो 'दुद्धदही चतुरङ्गुले ' त्यादि वचनादिति बोध्यम् ॥ ११० ॥
tional
For Private & Personal Use Only
w.jainelibrary.org