________________
सेनप्रश्ने. २ उल्लास
पं. हापार्षिक |९६-१०७
॥३०॥
तथा सरस्वती ब्रह्मचारिणी न वा इति प्रश्नोऽत्रोत्तरं-क्षेत्रसमासवृत्त्यनुसारेण भगवतीसूत्रानुसारेण च सरस्वती गीतरतिनाम्नो | व्यन्तरेन्द्रस्याग्रमहिषीति ज्ञायते, तेन सा (न) ब्रह्मचारिणी प्रोच्यत इति ॥ १०॥
तथा-निष्कारणं सदोषभुनां जघन्यतोऽपि चारित्रं स्यान्न वेति प्रश्नोऽत्रोत्तरं " जं किंचिवि पूइकडं, सड्डीमागंतुमीहितं । सहस्संतरिक्षं भुजे, दुपक्वं चेव सेवई ॥१॥” इत्यादिश्रीसूत्रकृदङ्गादिवचनप्रामाण्यान्मुख्यतस्तदभावः, परं सशूकनिःशकादिपरिणामभेदेन गूढागूढालम्बननिरालम्भ| नवत्त्वेन केषाञ्चित्कथमपि स्यादपि न स्यादपि केषाञ्चिदत एव पार्श्वस्थादिष्वपि देशसर्वभेदेन भूयानधिकारः सिद्धान्ते प्रोक्तोऽस्तीति ॥ १०१॥
तथा योनिविचारे यत्र मनुष्योत्पत्तिस्तत्रैव द्वीन्द्रियादीनामुत्पत्तिदृश्यते, तथा च योनिसङ्करः स्यादिति, प्रश्नोऽत्रोत्तरं-मनुष्यद्वीन्द्रिया- | दीनां योन्येकत्वेऽपि स्वस्वजातावेव योन्येकत्वव्यवहारो न तु भिन्नजातो, अत एव छगणादिष्वप्युत्पन्नानां भूयसां कुचनां द्वीन्द्रियादीनां स्वजात्यपे| क्षया योन्येकत्वं, भिन्नजातीयानामपि तत्रोत्पन्नानां स्वजात्यपेक्षयैकयोनिकत्वं, तेन न योनिसङ्करः सम्भाव्यत इति ॥ १०२॥
तथा—योगमध्ये रात्रावनाहारग्रहणं भवति न वेति प्रश्नोऽत्रोत्तरं-रात्रौ योगिनां सङ्घट्टकाभावात्किमपि ग्रहीतुं न कल्पते, सङ्घट्टकं तु सायं | नुक्तमिति प्रातः प्रवचनप्रवेदनानन्तरमेव तद्ब्रहणं कल्पत इति ॥ १० ॥
तथा-देवानां कुलकोटयो बढ्यो लिखिता इति तत्र के जीवास्सन्तीति प्रश्नोऽत्रोत्तरं-यथा मनुष्येष्विक्ष्वाकुकुलादीनां अनयत्यात्समानVI स्वरूपत्वेऽपि तत्सम्भवस्तथा देवेष्वपीति न काचिदनुपपत्तिरिति ॥ १०४ ॥
तथा-सामग्रीमन्तरा कश्चित् स्वयं चारित्रं गृहीत्वा पालयति तदा तस्य किं फलं भवतीति प्रश्नोऽत्रोत्तरं-स्वयंचारित्रग्रहणं शास्त्रन्यायेन | स्वयम्बुद्धप्रत्येकबुद्धौ विना न कल्पते, यदि च कश्चित्स्वयं कुमार्गत्यागाद्वैराग्येण तद्रहणं करोति तदा निर्जरादि फलं सम्भवतीति ॥ १०५॥
॥३०॥
Jain Educatio
n
al
For Private Personel Use Only
Mainelibrary.org