SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सेनपने. २ उल्लासः ॥२९॥ नपुंसकवेदो वाऽसक्लिष्टस्तस्य भवेत् , पूर्वप्रतिपन्नः पुनः सवेदोऽवेदो वा भवेत् , तत्र जिनकल्पिकस्य तद्भवे केवलोत्पत्तिप्रतिषेधादुपशमश्रेण्या वेदे वृ.प. कनक उपशमिते सति अवेदकत्वम्, तदुक्तं-"उवसमसेढीए खलु, वेदे उवसामिऑमि उ अवेदो । न उ खविए तज्जम्मे, केवलपडिसेहभावाओ ॥१॥" विजय० शेषकालं तु सवेद इति बृहत्कल्पवृत्तौ उक्तत्वादिति ॥९॥ तथा-माविद्वितीयतृतीयतीर्थकृतोरुदायिसुपार्श्वजीवयोरन्तरकालस्यात्पत्वाद्वैमानिकदेवगतिः न सङ्गच्छते, नरकगतिरपि तयोस्तथाविधयोर्न सगच्छते, न च भवनपत्यादिगतिः, तत आगतानां तीर्थकरत्वप्राप्तिनिषेधात्तत्का गतिरिति प्रश्नोत्रोत्तरं-अनयोर्गतिः शास्त्रे श्रुता नास्ति, तत्त्वं तु तत्त्वविद्वद्यमिति ॥ ९१॥ तथा-आमलकग्रन्थिककरीरजीरकमिश्रितवस्तुपिप्पलीहरितक्य एतानि वस्तून्याचाम्लमध्ये कल्पन्ते न वेति प्रश्नोत्रोत्तरं-एतानि वस्तून्याका चाम्लमध्ये न कल्पन्ते धामस्थानामिति, यतीनां तु जीरकमिश्रितं पर्पटिकादिकं कल्पतेऽपीति प्रवृत्तिः ॥ १२॥ तथा--यथाऽत्र भरते श्रीवीरजन्मः भस्म ग्रहस्तथाऽन्यक्षेत्रे तीर्थकृतां जन्मीं स आगतोऽस्ति नवा ?, तथाऽत्र यथा कुमतबाहुल्यं तथाऽन्यक्षेत्रेष्वपि तथैव न वा इति प्रश्नोऽत्रोत्तर-दशस्वपि क्षेत्रेषु तीर्थकृतां च्यवनादीनि कल्याणकान्येकस्मिन्नेव नक्षत्रे भवन्तीत्यागमोक्तत्वाद्भस्मग्रहादि। सङ्क्रमणं सर्वं समानमेवेति ॥ ९३॥ तथा-एतानि दशाश्वर्याण्यत्रैव भरते भवन्ति दशसु क्षेत्रेषु वेति प्रश्नोत्रोत्तरं-दशस्वपि क्षेत्रेषु दश दश भवन्ति, तत्र कानिचिदेतानि || | कानिचिद्भिन्नानीति ॥ १४ ॥ ॥२९॥ JainEducation For Private Personal Use Only Jaininelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy