SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ क्षेत्रद्वय्यामेव तु ज्ञानरिक्तं । सप्तक्षेत्र्यामेव तु स्थापनीयं, श्रीसिद्धान्तो जैन एवं ब्रवीति ॥ १॥ एतत्काव्यमुपदेशसप्ततिकाप्रान्तेऽस्ति, एतदनुसारेण | ज्ञानद्रव्यं देवपूजायां प्रासादादौ चोपयोगि भवतीति ॥ ८४ ॥ तथा-सौधर्मादिदेवा मनुष्यतिर्यध्येऽमुकस्थानके उत्पत्स्यामहे ईदृशं जानन्ति न वा ! इति प्रश्नोत्रोत्तरं-केचन तथाविध. ज्ञानसद्भावाजानन्ति, केचित्तु तदभावान्न जानन्त्यपीति ॥ ८५ ॥ तथा-प्रातः प्रतिक्रमणे तपसः कायोत्सर्गामध्ये ' उपवासाद्यमुकं तपः करिष्ये' ईदृशं विचिन्त्य कायोत्स, पारयति, पश्चात्कस्य. चिदाग्रहाचिन्तितादन्यत्तपः करोति, तस्य प्रत्याख्यानभङ्गो लगति नवेति प्रश्नोऽत्रोत्तर-प्रत्याख्यानभङ्गो न लगतीति ॥ ८६ ॥ तथा-स्त्रीरत्नं निदानबद्धमनिदानबद्धं वा स्यादिति प्रश्नोत्रोत्तरं-उभयथाऽपि स्यादिति, विशेषानभिधानादिति ॥ ८७ ॥ तथा देशविरत्या चक्रिपदं लभ्यते न वा! तथा चक्रिणां गार्हस्थ्ये देशविरतिः स्यान्न वा ? यदि सा न स्यात् तत्र को हेतुरिति प्रश्नोऽत्रोत्तरंदेशविरत्या चक्रवर्तिपदप्राप्तिर्भवति न भवति वेत्येकान्तो ज्ञातो नास्ति, तथा चक्रिणां महापरिग्रहित्वादेशविरतेरप्राप्तिः स्यादिति ॥८॥ तथा-तीर्थकरगणभृतां मिथो मिन्नवाचनत्वेऽपि साम्भोगिकत्वं भवति। न वा ! तथा सामाचार्यादिकृतो भेदो भवति न वा इति | प्रश्नोत्रोत्तरं-गणभृतां परस्परं वाचनाभेदेन सामाचार्या अपि कियान मेदस्सम्भाव्यते, तद्भेदे च कथञ्चिदसाम्भोगिकत्वमपि सम्भाव्यत इति ॥८९ तथा-जिनकल्पिकास्तद्भवे मोक्षं यान्ति न वा?, चेन्न यान्ति तत्र किं निदानमिति प्रश्नोऽत्रोत्तरं-जिनकल्पिकास्तद्भवे मोक्षं न यान्ति, यतः " न करिति आगमं ते, इत्थीवज्जो उ वेद इक्कतरो । पुवपडिवन्नओ पुण, होज सवेओ ओ वा ॥ १॥" न कुर्वन्ति आगमम्. अपूर्वश्रुताध्ययन, पूर्वाधीतं तु श्रुतं विश्रोतसिकाक्षयहेतोरेकाप्रमनाः सम्यगनुस्मरति । वेदमङ्गीकृत्य प्रतिपत्तिकाले स्त्रीवर्ज एकतरः पुरुषवेदो Join Education For Private Personal Use Only relibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy