________________
तथा-सिद्धिशिलाया उपरिस्थं योजनं प्रमाणाङ्गुलेन किमपरेण वेति ! प्रश्नोऽत्रोत्तरं-सिद्धिशिलाया उपरिस्थं योजनमुत्सेधाडलेन न तु | प्रमाणाङ्गुलेनेति बोध्यम् ॥ ७२ ॥
___तथा—देवलोकपुस्तकेषु किं लिवीकृतमस्ति ! किमभिधानं तच्छास्त्रमिति प्रश्नोऽत्रोत्तर-देवलोकपुस्तकेषु लिपीकरणं तत्रत्यव्यवहार| माश्रित्य सम्भाव्यते, तदभिधानं तु कुत्रापि दृष्टं नास्तीति ॥ ७३ ॥
तथा-नवीनदीक्षितस्य साधोः श्री तातपाददीक्षाभवनानन्तरमचित्तरजओहडावणिअकायोत्सर्गे विस्मृते पुनदीक्षां दत्त्वाऽऽवश्यकादियोगानुष्ठानमुपस्थापना च शुद्धयति नवेति प्रश्नोऽत्रोत्तरं-गच्छनायकदीक्षाभवनानन्तरमचित्तरजओहडावणिअकायोत्सर्गे विस्मृते पुनर्गच्छनायकदीक्षामन्तरेणाऽऽवश्यकादियोगानुष्ठानमुपस्थापना च न शुध्यतीति ॥ ७४ ॥
तथाविहृतपात्रकाणि पुनर्लेपितानि चतुर्मासके विहृतानि करपन्ते न वा ! इति प्रश्नोऽत्रोत्तर-पूर्वविहृतपात्रकाणि पुनःपितानि चतुर्मासके विहृतानि कल्पन्त इति ॥ ७ ॥
____ तथा शय्यात रगृहानगृहीतुर्यथाऽऽचाम्लं प्रायश्चित्तं दीयते, तथा तद्भोक्तृणामपि दीयते न वा इति प्रश्नोऽत्रोत्तरं-ग्रन्थे तु शय्यातरलाविण्डभोगे इति सामान्येनाचाम्लमुक्तमस्ति, परमिदानी परम्परया तब्राहकस्याचाम्लं प्रदीयत इति ।। ७१ ॥
तथा--वसतिस्वामिनि देवलोकं गते कः शय्यातरः स्यादिति प्रश्नोत्रोत्तरं-स्वामित्वेन यः तच्चिन्ताकारी स एव शय्यातरो भवतीति ॥ ७७॥
तथा-उपाश्रये वलिकास्तम्भचन्द्रोदयमोचकस्य शय्यातरोऽथवा भूमिकाधिपतेरिति प्रश्नोऽत्रोत्तरं शास्त्रानुसारेण सर्वेषां शय्यातरो | भवति, परं साम्प्रतं श्राद्धैर्यावतां शय्यातरनामानि लिखितानि तावन्तः शय्यातरा भवन्तीति ॥ ७८ ॥
Jain Education inlewal
For Private & Personal Use Only
या