________________
सेनप्रश्
२ उल्लासः
॥ २७ ॥
Jain Education AV
तथा — मांसाधिकारे योगशास्त्रे ' सद्यः संमूच्छितानन्तजन्तुसन्तानदूषित ' मित्यत्रानन्तजीवाः के इति प्रश्नोऽत्रोत्तरं तत्रानन्ता निगोदजीवा इति योगशास्त्रे प्रोक्तमस्ति ॥ ६८ ॥
तथा - 'संसज्जज्जीवसङ्घातं, भुञ्जाना निशि भोजनं' इति वचनात्कैश्चिच्चत्वारोऽप्याहारास्सदृशाः कथ्यन्ते, परमत्र किमप्यन्तरं न वा ? इति प्रश्नोऽत्रोत्तरं - जीवसंसक्तिस्सर्वेष्वशनेष्वपि समाना न भवतीति ॥ ६९ ॥
तथा - पौषधोच्चारपाठे 'देसओ' इति पदमाहारपौषध एव वर्त्तते, न तु शरीरसत्कारादिपौषधेषु तेन स्वयं स्वशरीरे वैयावृत्त्यविलेपनादेः करणं कारापणं च कल्पते न वा ? इति प्रश्नोऽत्रोत्तरं - पौषधिकानां कारणमन्तरेण स्वयं विलेपनादि कर्त्तुं कारयितुं च न कल्पते, यद्यन्यः कश्चिद्भक्त्या करोति तदा कल्पतेऽपीति ॥ ७० ॥
तथा——देवानामवध्यादिज्ञानसद्भावात् पूर्वाधीतमनधीतं वा चतुर्द्दश पूर्वादिश्रुतं सम्भवति न वा ? इति प्रश्नोऽत्रोत्तरं देवानामवध्यादिज्ञानसद्भावे प्राय एकादशाङ्गरूपं श्रुतं स्मरति, न शेषं यदुक्तं महाभाष्ये तद्वृत्तौ च - “ चोइसपुत्री मणुओ, देवत्ते तं न संभरइ सव्वं । देसंमि होइ भयणा, सट्टा भवेऽवि भयणा उ ॥ १ ॥ ' इह कश्चिच्चतुर्द्दशपूर्ध्वधरः साधुर्मृत्वा देवलोकं गतः, तत्र च देवत्वे तत् पूर्व्याधीतं श्रुतं न स्मरति, कियन्न स्मरतीत्याह - ' सर्व्वं ' कृत्स्नमशेषमिति यावद्देशे पुनरेकादशाङ्गलक्षणे इति कल्पचूणिः, कोट्याचार्यव्याख्यानं तु देशे सूत्रार्थे सूत्रमात्रादौ वेति, इदं पूर्व्वगतसूत्रापेक्षं सम्भाव्यते, अन्यथा कल्पेन सह विरोधप्राप्तेः, भजना-विकल्पना भवति, यथोक्तं देशं स्मरत्यपीत्यर्थः, किं | देवत्व प्राप्तस्यैवेत्थं श्रुतस्य प्रतिपात आहोश्विदिह भवेऽपीत्याह - 'स्वस्थाने' मनुष्यत्वे योऽसौ भवो जन्म तत्रापि तिष्ठतो भजना-विकल्पना, मिथ्यात्वगमनादिभिः कारणैः कस्यचित्प्रतिपतति श्रुतं कस्यचिन्नेति विशेषावश्यकटीकायां मलधारिहेमसूरिकृतायामिति ॥ ७१ ॥
For Private & Personal Use Only
वृ.पं. कनक विजय०
४८-९५
॥ २७ ॥
jainelibrary.org