________________
अंशा भवन्तीति, तदत्र सप्तत्रिंशच्छतत्रिसप्तत्यंशेषु स्थानद्वयेऽपि किंलक्षणः कालः प्रोच्यते ? इति प्रश्नोऽत्रोत्तरं-२५६ आवलीमितक्षुल्लक. IN | भवविचारे उच्छासमुहूर्तीदिषु क्षुल्लकभवा आवलिकाश्च सङ्ख्यातुमिष्टाः, मुहत्ते च त्रिसप्तत्यधिकसप्तत्रिंशच्छतमिता उवासा भवन्ति, तेन गण.
नसौकर्याथै ३७७३ मित एव भाजकराशिः परिकल्पितः, तत्मानकालस्तु आवलिकागतांशेष्वसङ्ख्येयसमयात्मकः क्षुल्लकभवांशेषु तु ततः | षट्पञ्चाशदधिकद्विशतगुणो, यतः २५६ आवलीभिरेकः क्षुल्लकभवो भवतीति ॥ १३ ॥
तथा--श्रीवीरतीर्थकृतो द्विसप्ततिवर्षाण्यायुर्मानमुक्तं, तजन्मदिनाद्वा गर्भोत्पत्तेर्वा तदायुर्विचार्यमाणं मिथो विघटते तत्किमिति, | प्रश्नोत्रोत्तरं-जन्मपत्राद्यपक्षेया तु जन्मतः, परमार्थतस्तु गर्भोत्पत्तित आयुःपरिमाणं गण्यते, द्वासप्तत्यादिवर्षमानप्रतिपादनं तु न्यूनाधिकमासदिवसानामविवक्षणान्न विसंवदतीति ॥ ६४ ॥
तथा-अनाहारे निम्बादिकं प्रोक्तमस्ति तदादै सत्तत्र कल्पते न वा ? इति प्रश्नोऽत्रोत्तर--अनाहारे निम्बादिकमामपि कल्पत इति ॥१५॥
तथा—वटार्कपञ्चाङ्गुलानां पत्राणि त्रोटितानि स्वयंपतितानि वा मुहूर्तादूर्ध्वमचित्तीभवन्ति न वेति ? प्रश्नोऽत्रोत्तरं-'विटमि मिलाणंनी, नाएवं जीवविप्पजढ' मिति वचनादृन्ते म्लाने सति वनस्पतिपत्राणि त्रोटितानि स्वयंपतितानि वाऽचित्तीभवन्ति, न तु कालनियमः प्रोक्तोऽस्तीति॥१६॥
___ तथा-'मज्जे महुम्मि मंसंमि, नवणीयमि चउत्थए । उप्पजति असंखा, तव्वण्णा तत्थ जंतुणो ॥ १ ॥' इत्यत्र मद्यादिचतुष्के ये जीवा उत्पद्यन्ते, ते कियदिन्द्रिया इति, प्रश्नोऽत्रोत्तरं-मद्ये मधुनि नवनीते च द्वीन्द्रियाः, मांसे एकेन्द्रिया बादरनिगोदरूपा द्वीन्द्रियाश्च, मनुष्य- | N| मांसे तु एकेन्द्रिया बादरनिगोदरूपा द्वीन्द्रियाः सम्मूछिममनुष्यपञ्चेन्द्रियरूपाश्च सम्पूर्छन्तीति शास्त्रानुसारेण सम्भाव्यत इति ॥ १७ ॥
Jain Educat
onal III
For Private Personal Use Only
|jainelibrary.org