SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Jain Educat तथा - चउसट्टिकरि सहस्सेति गाथाया व्याख्यानं प्रसाद्यमिति, प्रश्नोऽत्रोत्तरं - चतुष्पष्टिहस्तिसहस्राः, किंलक्षणाः ! सहाष्टदन्तैर्वर्त्तन्ते यानि तानि साष्टदन्तानि, अष्टसङ्ख्यानि शिरांसि अष्टशिरांसि साष्टदन्तानि च तानि अष्टशिरांशि च साष्टदन्ताष्टशिरांसि चतुष्कृ साष्टदन्ताष्टशिरांसि येषां ते चतुष्षष्टिसाष्टदन्ताष्टशिरसः अत्र मध्यपदलोपी समासो ज्ञेयः, अष्टानां च चतुष्पष्ट्या गुणने द्वादशोत्तराणि | शिरांसि प्रतिगजं स्युरिति । तथैवैकस्मिन् दन्तेऽष्टाष्टपुष्करिण्य इति ॥ १३ ॥ तथा - ' हवण विलेवणे' तिगाथात्रये ध्वजाष्टमङ्गलकौ न दृइयेते, साम्प्रतं तु पूजावसरे तौ क्रियेयातां तत्र किं कारणमिति ! प्रश्नोsत्रोत्तरं—व्हवणविलेवणत्यादिगाथामध्ये ध्वजाष्टमङ्गलकयोरुपलक्षणेन ग्रहणं बोध्यं यत आत्मीयानामविच्छिन्नपरम्परागतः स्नात्रादिविधिर्निर्मूलो न भवतीति सम्भाव्यत इति ॥ ५४ ॥ तथा— श्रीमदर्हतां जनुर्महोत्सवकरणे देवानां देहानि कियन्मात्राच्चैस्तराणीति प्रश्नोऽत्रोत्तरं - महोत्सवावसरे देवानां देहान्यभिषिच्यमानजिनसमानकालीनमनुजशरीरोचितानि सम्भाव्यन्त इति ॥ ५५ ॥ तथा - चतुर्म्मासकमध्ये ' सक्कोसं जोअणं भिक्खायरिआए गंतुं पडिनि अत्तए' इत्युक्तं श्रीकल्पसूत्रे, एतदनुसारेण चैत्यगुर्व्वादिवन्दनाद्यर्थे गन्तुं कल्पते न वा ? इति प्रश्नोऽत्रोत्तरं - ' भिक्खायरिआए' इत्येतत्पदं चैत्यगुरुवन्दनाद्यर्थे गमनस्योपलक्षणपरमवसीयते, यत आवश्यकहारिभद्र्यां द्विक्रियनिह्नवस्य शरत्काले नयुत्तरणपुरस्सरं गुरुवन्दनादि दृश्यते, परं प्रवृत्तिर्नास्तीति ॥ ५६ ॥ तथा—सर्व्वत्र प्रत्याख्याने ‘ अन्नत्थणाभोगेणं' इत्याद्याकारोच्चारणं प्रोक्तमस्ति परं ' पाणस्स लेवेण वा ' इत्यादिषु कथं तन्नेति ? national For Private & Personal Use Only www.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy