SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सेनप्रभै २ उल्लासः ॥ २५ ॥ तथा - " अक्खड़ तिहुअणना हो, दोसो संसत्ति होइ राईए । भत्ते तगंधरसा, रसेसु रसिआ जिआ हुंतेि " ॥ १ ॥ त्ति छुटकगाथानुसारेण च स्थावरजीवोत्पत्तिः सम्भाव्यते न त्रसजीवानां रात्रियोगादिति ॥ ४८ ॥ तथा -- अलेपमध्ये ' मोअणाती रोटी खाखरा फलादिकं ' कल्पते न वा ? इति प्रश्नोऽत्रोत्तरं - बहुषु ग्रन्थेषु अल शब्देन वलचणकादिकं व्याख्यातमस्ति, बृहत्कल्प भाष्यवृत्तिमध्ये तु ' मोअणरहितरोटी पापरा साधुउं आटु ' इत्यादिकं अलेपमध्ये कल्पते इति व्याख्यातमस्ति ॥ ४८ ॥ तथा - श्रद्धालूनां सिद्धान्तपठननिषेधः कुत्र कुत्रागमे प्रकरणादौ च प्रोक्तोऽस्तीति प्रश्नोऽत्रोत्तरं - समवायाङ्गादौ यतीनां सिद्धान्तपठनाधिकारोऽस्ति यतस्तत्राचाराङ्गादीनामुद्देशनकालादयः प्रोक्तास्सन्ति, ते च यतीनामेव घटन्ते, तथा-तिवरिपरि आयस्स उ, आयारपकप्पनाममज्झयणं । चउवरिसरस य सम्मं, सूअगडं नाम अंगति ॥ १ ॥ इत्यादि सप्त गाथा: पञ्चवस्तुके कथितास्सन्ति, अत्राप्याचाराङ्गाद्यध्ययनयोग्यतामाश्रित्य यतिसम्बन्धीन्येव दीक्षापर्यायवर्षाणि नैयत्येनोक्तानि सन्ति, अयमर्थो व्यवहारच्छेदग्रन्येऽप्यस्ति, एवं ' गेहे दीवमपासंता' इत्यक्षराणि सूत्रकृताङ्गेऽपि वर्त्तन्ते, इत्याद्यक्षरानुसारेण साधव एव तदध्ययनाधिकारिणो न तु श्राद्धा इति ॥ ५० ॥ तथा - त्रिविधाहार द्विविधाहारप्रत्याख्यानकरणे श्राद्धानां पानीयतुर्याहारौ किं भक्ष्यौ न वेति ? प्रश्नोऽत्रोत्तरं श्राद्धानां त्रिविधाहारद्विविधाहारप्रत्याख्यानेऽपि पानीयतुर्याहारो भक्ष्यौ ज्ञेयौ, परमयं विशेषो येन प्रातस्त्रिविधाहारप्रत्याख्यानं कृतं स्यात् तस्यैकाशनादिकरणसमये तुर्याहारः कल्पते न तूत्थानानन्तरमिति, पानीयं तूभयत्राप्यचित्तं कल्पते, द्विविधाहारप्रत्याख्याने तु द्वयोरपि भक्ष्यतया सम्भवोऽस्ति, सन्ध्यायां तु त्रिविधाहारप्रत्याख्याने पानकाकारानुच्चारणात् सचित्तमपि पानीयं कल्पते ॥ ११ ॥ तथा - लोकान्तिकाः किमेकावतारिण उत नेति ? प्रश्नोत्तरं - लोकान्तिका देवा एकावतारिण एवेत्येकान्तो ज्ञातो नास्तीति ॥ ५२ ॥ Jain Education emational For Private & Personal Use Only वृ.पं. कमल वि. ४७. वृ.पं. कनक वि. ४८-९५ ॥ २५ ॥ jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy