________________
तथा-शङ्खश्रावकगृहे पुष्कलीश्राद्धेन पौषधशालायां गत्वेर्यापथिकी प्रतिक्रान्ता सा किमर्थमिति ! प्रश्नोत्रोत्तरं-पुष्कली श्राद्धस्येर्या. पथिकीप्रतिक्रमणे भगवतीवृत्तौ हेतुरुद्भावितो नास्तीति कथं तद्विषयो निर्णयः कर्तुं शक्यते !, किं च अयं चरितानुवादो न तु विधिवादः, तेन नायं विधिस्सर्वैरनुष्ठेय एवेति ॥ ४५ ॥
तथा—देवलोकादिहागच्छन्तः सुराः निर्याणमार्गेणैवागच्छन्त्यन्येन वेति प्रश्नोऽत्रोत्तरं-यद्यपि सुराणामचिन्त्यशक्त्या सर्वत्राप्यागमनश| क्तिरस्ति तथाऽपि सिद्धान्ते सुराणामागमनं प्रायो निर्याणमार्गेणोक्तं दृश्यत इति ॥ ४६॥
अथ वृद्धपण्डितकमलविजयगणिकृतप्रश्नस्तदुत्तरं च यथा-नृक्षेत्रबहिर्वर्तिनः सिंहादयः श्वापदाः पलमोजिनो वा भोगभूमिजतिर्यञ्च इव पृथ्वीफलाद्याहारिणो वा भवन्तीति प्रश्नोत्रोत्तरंमनुष्यक्षेत्राहिवर्तिनां व्याघ्रादिहिंसकजीवानां प्रायः पलभोजित्वं सम्भाव्यते, समुद्रादिमत्स्यानामिव, न तु भोगभूमिजव्याघ्रादीनामिव केवलपृथ्वीवृक्षफलादिभोजित्वं । किं च-यथा भोगभूमिजव्याघ्रादीनामल्पकषायित्वं भोगभूमिजपृथ्व्यादीनां च यथा विशिष्टरस-रिणामो न तथेतरेषामिति सम्भावनानिदानम, एतद्विषये विशेषाक्षराणि न स्मरन्तीति ॥ ४७ ॥
___ अथ वृद्धपण्डितकनकविजयगणिकृतप्रश्नास्तदुत्तराणि च। तथा-अचित्ताशनादिचतुष्कमध्ये रात्रौ प्रसनीवानां स्थावरजीवानां चोत्पत्तिर्भवति न वा इति ! प्रश्नोत्रोत्तरं-रात्रावचित्ताशनादिचतुष्कमध्ये " तजाणिआण जीवाणं, तहा संपाइमाण य । निसिमत्ते वहो दिट्ठो, सव्वदंसीहिं सव्वहा ॥ १॥" इति श्राद्धदिनकृत्यमूत्रवचनात्
Jain Education IN
For Private
Personal Use Only