________________
Jain Education
वेति प्रश्नोत्तरं - जिनबिम्बानां वस्त्रपरिधापनिका शास्त्रेषु दृश्यते, परं प्रधानवस्त्राङ्गिकादिभिराभरणैरिव यथौचित्येनैव क्रियमाणा युक्तिमती, न तु मस्तकस्योपरि वस्त्रस्य मोचनादिनेति ॥ २४ ॥
तथा - साधुभिः पौषधिकश्राद्धैश्च मात्रकाणि पात्रकाणीव द्विः प्रतिलेख्यान्युत व्यापारणावसरे एव प्रमृज्य व्यापारणीयानीति ! प्रश्नोऽत्रोत्तरं साधुभिः पौषधिकश्राद्धैश्च मुख्यतो मात्रकाण्यपि पात्राणीव द्विः प्रतिलेख्यानि, व्यापारणावसरे च प्रमृज्य व्यापारणीयानीति ॥ २५ ॥ तथा - कालवेलायां प्रकरणानि नियुक्तयो वा साधुभिर्गण्यन्ते नवा ! तथा कालवेलायां श्राद्धैरपि सङ्ग्रहणीप्रमुखं गण्यते नवेति ! प्रश्नोऽत्रोत्तरं - कालवेलायां सर्वेषामप्याचार प्रदीपादौ नियुक्तिभाष्यादिप्रभृति सर्वपठनपाठनादि प्रतिषिद्धमस्ति ॥ २६ ॥
तथा - योग विधौ ये महानिशीथेऽष्टस्वध्ययनेषूदेशका उक्तास्सन्ति, तेप्यधुना कोऽप्यस्ति नवा इति ? प्रश्नोऽत्रोत्तरं - - योगविधानोक्तमहानिशीथोद्देशकास्तु तदादर्शानां वैगुण्याद्वयाख्यानाभावाच्च व्यक्त्तत्या नोपलभ्यन्त इति || २७ ॥
तथा - पौषधकरणात् पू स्वाध्यायः कृतो देवाश्च वन्दितास्तदा पश्चात्पौषधकरणे उपधानप्रवेशे वा पुनरपि स्वाध्याय देववन्दनादि करणीयं नवेति, प्रश्नोऽत्रोत्तरं - पौषधकरणात्पूर्व स्वाध्याय देववन्दनादि कृतं स्यात्तदा पश्चादपि तेनैव सरतीति वृद्धोक्तिरिति ॥ २८ ॥
तथा - पौषधिकैस्त्रिसन्ध्यं विस्तरेण देवा वन्द्यन्ते, तदक्षराणि क्व सन्ति !, मध्याह्ने देववन्दना तु सामाचारी पौषधविधिप्रकरणादिषु दृश्यते इति ? प्रश्नोऽत्रोत्तरं यद्यपि पौषधिकश्राद्धानां सामाचार्यादिषु मध्याह्न एव देववन्दनं दृश्यते, तथापि " पडिक्कमओ गिहिणोऽवि हु, सगला पंचवेल इअरस्स | पूआसु तिसं, झासु अ, होइ तिवेला जहन्त्रेणं " ॥ १ ॥ इत्याद्यक्षरवशात् त्रिकालपूजास्थानीयत्वेन परम्परागतत्वेन त्रिकाल देववन्दनं युक्तिमदेवेति ॥ २९ ॥
For Private & Personal Use Only
jainelibrary.org