________________
सेनप्रश्
२ उल्लासः ॥ २१ ॥
द्यानामेकोऽन।काधिपतीनामेकः प्रकीर्णकसुराणामेक एवं दश, सव्र्व्वमिलने सार्द्धद्विशता २५० भिषेकास्तथा ( अभिषेकार्णा तथा ) कनकमयादीनमष्टप्रकाराणां कलशानां प्रत्येकमष्टाष्टौ सहस्रा इति चतुष्षष्टिसहस्रकलशाः, तदङ्कस्याभिषेकाङ्केन गुणने गाथोक्ता कलशानां सङ्ख्या भवतीति सम्भावना छटकपत्रे दृश्यत इति ॥ २० ॥
तथा -- राजप्रश्नीयोपाङ्गे' तस्स णं पएसिस्स रण्णो जेट्ठे भाउअवयंमए चित्ते नामं सारही होत्था ' इत्यत्र ' जेट्टे भाउअवयंसए ' इत्यस्य कोऽर्थ इति ? प्रश्नोऽत्रोत्तरं - अनेकप्रकारेणापि भ्राता सम्भवति, स च वयस्योऽपि भवति, वयसा च वृद्ध इति चित्रसारथिः प्रदेशिराजस्य जेष्ठ भ्रातृवयस्य उच्यत इति ॥ २१ ॥
तथा - कल्पसूत्रे सामाचार्यामेकपञ्चाशत्तमसूत्रे 'निक्खमित्तए वा पविसित्तर वा इति पदद्वयमधिकमिव दृश्यत इति प्रश्नोऽत्रोत्तरं' भत्तपाणपडि आइक्खित्तए ' त्ति वचनात् कश्चित्सामान्यतो विहितानशनः कश्चिच्च कृतपादपोपगमनो भिक्षुर्विहर्त्तं प्रवर्त्तितुमिच्छेदित्यर्थः सङ्गच्छते तदनुसारेण सामान्येन कृतानशनस्य निक्खमित्तए वे ' त्यादि विशेषणानि यथासम्भवं सङ्गच्छन्त एव नतु कृतपादपोपगमनस्येति न काप्यधिकतेति ॥ २२ ॥
तथा - व्यवहारषष्ठो देशके ग्रामनगरादिषु वर्षाकाले ऋतुबद्धकाले वाऽगीतार्थानां बहूनामपि प्रकल्पधरगीतार्थमेकं विनाऽवस्थान निषेध - saस्थाने च प्रायश्चित्तमाज्ञाभङ्गादयो दोषाश्चेत्युक्तमस्ति, अयं विधिरधुनातनः पुरातनो वेति प्रभोऽत्रोत्तरं - सान्वत्रिकोऽयं विधिरित्यवसीयते, अधुना तु प्रकल्पधरगीतार्थं विनापि विहारकरणं तद्द्रव्यक्षेत्राद्यनुभावत इति ॥ २३ ॥
यथा — जिननिम्बानां वस्त्रपरिधापनं शास्त्रेषु दृश्यते, आत्मनां गच्छे कथं न क्रियते !, कैश्चित्तु क्रियते तदात्मभिः किं निषिध्यते मन्यते
Jain Education International
For Private & Personal Use Only
पं. आनन्द विजय०
१-४२
॥ २१ ॥
www.jainelibrary.org