SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ तथा-वलोणाघोलो वस्त्रागालितो विकृतिनिर्विकृतिति, प्रश्नोऽत्रोत्तरं-वलोणाचोलो वस्त्रगालितो लवणसहितो वा निर्विकृतिः, अन्यथा तु विकृतिरिति ॥ १०॥ तथा-चक्रिणः चन्दनपेषिका दासी वा स्त्री तथा भगवत्यामेकोनविंशशतकतृतीयोदेशके 'जउगोलासमाणपुढविकायं' इत्यस्ति, आचाराङ्गवृत्तौ तु प्रथमाध्ययनस्य द्वितीयोद्देशके वेदनाद्वारे 'आमलकप्रमाणं सचित्तपृथवीगोलकमेकविंशतिर्वारान् पिंप्यादि'त्यस्ति कोऽयं भेद इति ? प्रश्नोऽत्रोत्तरं-पश्चमाते महाबलाधिकारे ' अट्ठ वण्णगपेसीओ' इत्याद्युक्तमस्ति, तदनुसारेण दास्यवसेयेति, तथाऽऽर्द्रामलकमतुगोलकयोरेक एवार्थसम्भाव्यत इति ॥ ११ ॥ तथा- केवली णं भंते ! असि समयांस जेसु आगासपदेसेसु हत्थं वा पायं वा ओगाहित्ता णं चिट्ठती' त्यालापकेऽपि भगवतीत आचारावृत्तौ द्वितीयाध्ययनप्रथमोद्देशके पाठभेदोऽस्ति, सोऽपि कथं घटत इति प्रश्नोऽत्रोत्तरं-आचाराङ्गवृत्तावुक्तं चेत्युक्तमस्ति, न तूक्तं भगवत्यामिति, तेनायं पाठो ग्रन्थान्तरगतस्सम्भाव्यते, अथवाऽऽचाराङ्गवृत्तिकारकालवर्ति भगवस्यादर्शप्वयं पाठो दृष्टस्सम्भाव्यत इति ॥ १२॥ तथा-आवश्यकान्तर्भूतश्चतुर्विशतिस्तवस्त्वारातीयकालभाविना श्रीभद्रबाहुस्वामिनाऽकारीत्याचाराङ्गवृत्तौ द्वितीयाध्ययनस्यादौ तदत्र किमिदमेव मूत्रं भद्रबाहुनाऽकारि सर्वाणि वा आवश्यकम्त्राणि कृतान्युत पूर्व गणधरै : कृतानीति किं तत्त्वमिति ! प्रश्नोत्रोत्तरं-आचाराङ्गादि कमङ्गप्रविष्ट गणभृद्भिः कृतम्, आवश्यकादिकमनङ्गप्रविष्टमङ्गैकदेशोपजीवनेन श्रुतस्थविरैः कृतमिति विचारामृतसङ्ग्रहाऽऽवश्यकवृत्त्या| द्यनुसारेण ज्ञायते, तेन भद्रबाहुस्वामिनाऽऽवश्यकान्तभूर्तचतुर्विशास्तिवरचनमपराऽऽवश्यकरचनं च नियुक्तिरूपतया कृतमिति भावार्थः श्रीआचाराङ्गवृत्तौ तत्रैवाधिकारेऽस्तीति बोध्यमिति ॥ १३ ॥ Jain Education a l For Private Personal Use Only hinelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy