SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सेनप्रश्ने २ उल्लासः ॥१९॥ तथा-अऽष्टादशसु भावदिक्षु बीनरुहसम्मृर्छनवनस्पतिभेदौ कुत्र वनस्पतिमेदेऽन्तर्भवत इति प्रश्नोऽत्रोत्तरं-आचाराङ्गनियुक्त्या- [.ला. आनन्द विजय० दावष्टादशसु भावदिश्वप्रबीजाना चतुण्णी वनस्पतिभेदानां मुख्यतयाऽभिधानेनोपलक्षणाद्वीनरुहसम्म→जवनस्पतिभेदावपि दशवकालिकायुक्ती | सङ्घहीतौ वेदितव्यौ, अनयोर्मध्येऽप्रबीजादिष्वमुकस्मिन्नयमन्तर्भवतीति व्यक्तिस्तु शास्त्रे कृता न दृश्यत इति ॥ ७ ॥ तथा-सौधर्मेशानदेवी अष्टमदेवलोके गता प्रथमदेवलोकदेवो वाऽच्युते गतो मवनपतिदेवो वा सौधर्मे गतः प्रथमकल्पदेवो वा तृतीय| पृथिव्यां गतोऽवधिना कियत्क्षेत्रं परितः पश्यतीति, प्रश्नोऽत्रोत्तर-देवादीनामवधेरानुगामुकत्वाद्यो यत्रोत्पन्नो देवादिरवधिना यावत्क्षेत्रं पश्यति स तावदेवान्यत्र गतोऽपि पश्यतीति ज्ञायत इति ॥ ८॥ तथा-महत्त्वं मेरोरपि महत्तरशरीरकरणसामर्थ्य, तथा प्राप्ति मिस्थस्याकुल्यग्रेण मेरुपर्वताग्रप्रभाकरादिस्पर्शनसामर्थ्यमिति योगशास्त्र| वृत्तौ “ कफविप्रुणमलामर्श सौषधिमहर्षयः" इत्यस्य व्याख्याने प्रोक्तमस्ति, परमत्रोत्कर्षतोऽप्युत्सेधाङ्गुलमानेन लक्षयोजनप्रमाणस्य वैक्रिय शरीरस्य सम्भवान्मेरोरपि महत्तरशरीरकरणं भूमिस्थस्याङ्गुल्यग्रेण मेज़ग्रादिस्पर्शनं कथं घटत इति प्रश्नोऽत्रोत्तरं-यद्यपि 'सरीरमुस्सेह अंगु- | लेणं तर्हत्ति उत्सेधाङ्गुलेन शरीरमानमुक्तमस्ति, तथापि तत्प्रायिक सम्भाव्यते, तेन न काप्यनुपपत्तिः, अन्यथा मिस्थस्याङ्गुल्यग्रेण मेरुपर्वताग्रादिस्पर्शासम्भवात् , किञ्च यद्येकान्ततः शरीरमुत्सेधाङ्गलेनैव स्यात्, तदा प्रज्ञापनोपाङ्गादावुक्तो द्वादशयोजनप्रमाणशरीरोऽसालिकानीवो महाविदेहादिचक्रिणां प्रमाणाकुलेन द्वादशयोजनप्रमाणस्य स्कन्धावारस्य विनाशहेतुः कथं सम्भवति,' कथं वा कृतलक्षयोमनवैक्रियरूपेण सौधर्मदेवलोकं गतेन | चमरेन्द्रेण एकः पादः पद्मवरवेदिकायां मुक्तोऽपरश्च सुधासभायामित्यादिकं भगवत्याद्युक्तं सम्भवतीति ॥९॥ Jain Educatiohima For Private Personel Use Only www.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy