________________
Jain Education
तथा — सामायिकाऽधिकारे पूर्व्वमीर्यापथिकाप्रतिक्रमणं शास्त्रानुसायुत पश्चादिति प्रश्नोऽत्रोत्तरं - सामायिकाधिकारे महानिशीथहारिभद्रीयदशवैकालिकबृहद्वृत्त्याद्यनुसारेण युक्त्यनुसारेण सुविहितपरम्परानुसारेण च पूर्व्वमीर्यापथिकीप्रतिक्रमणं युक्तिमत्प्रतिभाति, यद्यप्यावश्यक चूण्ण • पच्छा इरिआवाहिआए पडिक्कमइ' इत्युक्तमस्ति पर तत्र साधुसमीपे सामायिककरणानन्तरं चैत्यवन्दनमपि प्रोक्तमस्ति तत इर्यापथिकप्रितिक्रमणं सामायिकसम्बद्धमेवेति कथं निश्चीयते ? तेन चूणिगतसामायिककरणसामाचारी सम्यक्तया नावगम्यते, यद्यपि योगशास्त्रवृत्तिदिनकृत्यवृत्त्यादौ पश्चादीर्यापथिकाप्रतिक्रमणं दृश्यते तत्तु चूणिमूलकमेवेति तदुपर्यपि पश्चादीर्यापथिकाप्रतिक्रमणनिर्णीतिः कथं भवतीति ॥ ४ ॥ तथा—गर्जितशब्दो जलसमुत्थो वायुसमुत्थो वाऽन्यद्वा किमपीति ? प्रश्नोऽत्रोत्तरं — स्थानाङ्गवृत्तौ स्थाने स्थाने स्तनितादिशब्दानां व्याख्याने मेत्रगर्जितमित्यर्थकरणान्मेघस्य च जलमयत्वाद्गर्जितशब्दो जलसमुद्भवस्सम्भाव्यते, वायुसमुत्थः शब्दो गर्जितमित्यक्ष तु शास्त्रे नोपलभ्यन्त इति ॥ ५ ॥
तथा - “ संखाईए उ भवे, साहइ जं वा परो उ पुच्छिज्जा । न य णं अणाइसेसी, वियाणई एस छउमत्थो " ॥ १ ॥ इयं गाथा गणधरानाश्रित्योक्ता सामान्यतश्चतुर्दशपूविणो वेति तथा तत्रावधिज्ञानी सङ्ख्येयानसङ्ख्येयांश्च भवान् पश्यति १ एवं मनः पर्यायज्ञान्यपि २ केवलज्ञानी तु नियमतोऽनन्तान् ३ जातिस्मरणस्तु नियमतस्सङ्ख्येयानित्याचाराङ्गवृत्तौ द्वादशपत्रे प्रोक्तमस्ति, अथ चतुर्दशपूर्वी कति भवान् जानातीति, तथा चतुर्द्दश पूर्वविदोऽसङ्ख्यान् भवान् जानन्तीति प्रघोषस्सत्योऽसत्यो वेति ! प्रश्नोऽत्रोत्तरं - 'सखाईए उ भत्रे ' इथं गाथा गणधरानाश्रित्यैवावश्यके प्रोक्ताऽस्तीति, तथैतदनुसारेणान्येऽपि सम्पूर्ण चतुर्द्दश पूर्वविदोऽसङ्ख्येयान् भवान् जानन्तीत्यवसीयते, उभयेषामवि श्रुतस्य तुल्यत्वादिति, तथोक्तयुक्त्या चतुर्द्दश पूर्व्वविदः सङ्खयान्तीतान् जानन्तीति प्रापोऽपि सत्यस्सम्भाव्यत इति ॥ ६॥
For Private & Personal Use Only
ainelibrary.org