SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सेनप्रश्ने. २ उल्लासः अथ द्वितीयोल्लासः॥ पं. आनद विजय १-४२ ॥१८॥ श्रीनाभेयं जिनं नत्वा, सत्त्वाभीष्टार्थसाधकम् । विधीयते मयामोदादुल्लासः प्रथमेतरः ॥ १॥ पण्डितआण(न)न्दविजयगणिकृतप्रश्नास्तदुत्तरााण च। यथा-जिनप्रतिमा एकाङ्गुलादारभ्य यावदेकादशाङ्गुलानि तावत्प्रमाणा गृहे पूजयितुं कल्पत इत्यक्षराणि मत्पावें सन्ति, यानि चैतद्विचारमाश्रित्य विशेषाक्षराणि भवन्ति तानि प्रसाद्यानि, यतोऽत्र नवीनप्रतिमामाश्रित्य श्रद्धालवः पृच्छन्ति-कत्यङ्गुला प्रतिमा पूजयितुं शुद्धयति, कत्यङ्गुला च नेति ? प्रश्नोऽत्रोत्तरम्-एकाङ्गुलप्रतिमाया आरम्यैकादशाङ्गुला प्रतिमा पूजयितुं कल्पते, उपरितनी तु जिनगृहे, अत्रायं विशेषो-गृहे जिनगृहे च विषमाङ्गुलप्रमाणैव प्रतिमा पूजायितुं कल्पते, न समाङ्गुलप्रमाणा, ठकुरफेरकृतवास्तुसारादौ तथैव प्रतिपादनादिति ॥ १॥ तथा- पूगीफलानां खण्डानि चर्णानि वा यतीनां कसेल्लकादिवद्विहत्त करूपन्ते नवा इति ! प्रश्नोऽत्रोत्तरम्-पगीफल्खण्डानि चूर्णानि केवलानि विहत्तै न कल्पन्त इति गच्छप्रवृत्तिः ॥ २॥ तथा-आगम १ श्रुता२ऽऽज्ञा ३ धारणा ४ जीत ५ व्यवहारेप्वधुना कियन्तो व्यवहारा वर्तन्त इति ? प्रश्नोऽत्रोत्तरम्:-आगमव्यवहारः साम्प्रतं नास्त्येव, श्रुतव्यवहारस्तु सम्पूर्णो नास्ति, वि यान् पर्तत इति, श्रुतादीनां चतुर्णी व्यवहाराणां साम्प्रतं विद्यमानत्वमवसीयते, तत्रापि प्रायश्चित्तप्रदानं प्रायो जीतव्यवहारानुसारेण प्रवर्तत इति ॥ ३ ॥ Jain Education For Private Personal Use Only
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy