________________
सेनप्रभे.
२ उल्लासः
॥ २० ॥
Jain Education
तथा — जिनप्रतिमाना यथा अस्थाने कृष्णता क्रियते तथैवौष्ठयो रक्तता क्रियते नवेति ? मनोऽत्रोत्तरं - शाश्वतप्रतिमानुसारेण स्थाने कृष्णताकरणत्रदोष्ठयो रक्तताकरणमविरुद्धमिति ॥ १४ ॥
तथा - जिनप्रतिमानां लाहिसत्काङ्गीरचना क्रियमाणा दृश्यते सा युक्तिमती नवेति । प्रश्नोऽत्रोत्तरं यद्यपि लाहिसंस्कारे किञ्चिदपावित्र्यं श्रूयते तथापि नामग्राहं निषेधाक्षरानुपलम्भादिदानींतनकाले स्थाने स्थाने तथाप्रवृत्तिदर्शनाद्वहूनां पूजाकरणान्तरायप्रसङ्गाच्च सर्व्वथा निषेधः कर्त्तुं न शक्यत इति ॥ १५ ॥
तथा-- आचाराङ्गप्रथमाध्ययनषष्ठोद्देशक वृत्तौ " कुलकोडिसयसहस्सा, बत्तीस सग अट्ठ नव य पणवीसा, एगिंदिवितेइंदिय च उरिंदिअहरिअकायाणं ” ॥ १ ॥ अत्र गाथायां पृथिव्यादिचतुर्णी कुलकोटिलक्षा द्वात्रिंशद्वनस्पतिकायानां पञ्चविंशतिः कुलकोटिलक्षाः, सङ्ग्रहां 'एदिए पंत्रसु, बार सग ति सत्त अटूवीसा येति ' अत्र चतुर्णी पृथिव्यादीनां द्वादशसप्तत्रिसप्तमीलने एकोनत्रिंशत्कुलकोटिरक्षा भवन्ति, आचाराङ्गवृत्तौ तु पृथिव्यादीनां पृथक् पृथक् कतिकुलकोटिलक्षा इति सम्यक् प्रसाद्यमिति, प्रश्नोऽत्रोत्तरं - आचाराङ्गोक्तपृथिव्यादीनां चतुर्णी द्वात्रिंशत्कुलकोटिलक्षेषु प्रत्येकं व्यक्तिर्नोपलभ्यत इति ॥ १६ ॥
4
तथा—' अस्संखपयरतुल्ला, बायरपज्जत्त वायुकायेति, भीमे भवंमि ममउत्ति, महादण्डकस्तवे आचाराङ्गनिर्युक्तौ तु “जे बायरपज्जत्ता, पयरस्स असंखभागमेत्ता उ । सेसा तिन्निवि रासी, वीसुं होगा असंखेज्जा " ॥ १ ॥ पूर्वत्रासङ्ख्येयाः प्रतरा उत्तरत्र प्रतरस्यासङ्ख्येयभागस्तेनात्र किं तत्वमिति प्रश्नोत्रोत्तरं - अत्र 'भीमे भवंमि भमिओ' इति स्तोत्रोक्तानुसारी पाठ: प्रज्ञापनादावस्ति, तेनाऽऽचाराङ्गनिर्युक्तौं मतभेदस्सम्भाव्यत इति ॥ १७ ॥
For Private & Personal Use Only
आनन्द
विजय० १-४२
11 20 11
Finelibrary.org