SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सेनप्रभे. १ उल्लासः ॥ १७ ॥ तथा—जातिस्मरणं सङ्ख्यात भवनिर्णायकमसङ्ख्यात भवनिर्णायकं वेति प्रश्नोऽत्रोत्तरं - जातिस्मरणमपि समतिक्रान्तसङ्ख्यातभवावगमस्वरूपं मतिज्ञानभेद एवेति कर्म्मग्रन्थवृत्त्याचाराङ्गवृत्त्यनुसारेण सङ्ख्यात भवनिर्णायक जातिस्मरणं ज्ञायत इति ॥ १२९ ॥ तथा --- कृतचतुर्विधाऽऽहारोपवासप्रत्याख्यानस्य सन्ध्यायां पडावश्यकवेलायां तत्प्रत्याख्यानं गुरोः समक्षं करणीयं ! किंवा मनसा ? किंवा न ? तथैव कृतषष्ठस्य द्वितीयदिनेऽन्यथा वेति, प्रश्नोऽत्रोत्तरं - सन्ध्यायां कृतचतुर्विधाहा रोपवासप्रत्याख्यानस्य मनसा स्मरणं न तु पुनः करणं, तथैव कृतषष्ठस्य द्वितीयदिनेऽपीति ॥ १३० ॥ तथा — दिगाचार्यशब्देन किमुच्यत इति प्रश्नोऽत्रोत्तरं सचित्ताचित्तमिश्रवस्त्वनुज्ञायी दिगाचार्य इति योगशास्त्रचतुर्थप्रकाशवृत्तौ प्रायश्चित्तं वैयावृत्त्यमिति श्लोकव्याख्याने दिगाचार्यशब्दार्थों ज्ञेय इति ॥ १३१ ॥ तथा - कृमिहराह्नानोऽनमकः किं सचित्तोऽचित्तो वेति प्रश्नोऽत्रोत्तरं - कृमिहराह्नानोऽनमको वृद्धैरचित्ततया व्यवह्रियमाणाऽस्तीति ॥१३२॥ तथा - पञ्चम्यष्टम्योः श्रीनेमिः संसारदावेतिस्तुती कथनीये इति निश्चयोऽथवा श्रीनेमिनाथमहावीरयोरपरेपि स्तुती कथनीये इति प्रश्नोऽत्रोत्तरं - पञ्चम्यष्टम्योः श्रीनेमिः संसारदावेति स्तुतिभ्यामपरे श्री नेमिनाथमहावीरयोः स्तुती नोच्येते इति नियमो ज्ञातो नास्ति, परं यद्यायातस्तदा प्रायेण ते उच्येते इति ॥ १३३ ॥ तथा -- जिनवरस्य स्कन्धे संयम ग्रहणावसरे सुरपतिर्यत्सुरदूष्यं मुञ्चति तस्यावस्थानस्य मानं प्रसाद्यमिति प्रश्नोत्रोत्तरं - दीक्षासमये देवेन्द्र मुक्त जिनवरस्कन्धस्यदेव दूष्यस्यावस्थाकालनियममाश्रित्य सप्ततिशतस्थानकानुसारेण श्रीवरिस्य साधिकं वर्षे यावच्छेषाणां च तीर्थकृतां यावज्जीवं देवदूष्यावस्थितिर्ज्ञाताऽस्ति, श्रीजम्बुद्वीपप्रज्ञप्त्यनुसारेण तु श्रीऋषभदेवस्य देवदूण्यावस्थान कालमानं श्रीवरिवदिति ज्ञेयमिति ॥ १३४ ॥ Jain Education International For Private & Personal Use Only उपा० धर्मविजय० १०७-१३६ ॥ १७ ॥ jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy