________________
योगशास्त्रवृत्त्यादावुक्ताः, निगोदजीवास्त्वेकेन्द्रियारसम्भवन्ति, उपदेशमालावृत्त्यादौ च सम्मलिमपश्चन्द्रिया अप्युक्तास्सन्ति, तथा द्विदले तक्रा-1 दियोगे दनि च श्राद्धपतिक्रमणवृत्त्यादौ तु सजीवोत्पत्तिरुवताऽस्ति, तेन ते दध्यासक्रटेन द्वीन्द्रियासम्भाव्यन्त इति ॥ १२३ ॥
तथा—मनुष्यलोकादहिः क्वचिद्रात्रिरेव क्वचिद्दिवैव, तत्र कालप्रत्याख्यानं रात्रिभोजनप्रत्याख्यानं च घटते नवेति प्रश्नोऽत्रोत्तरं-मनुष्य- | V| लोकाहिः कालप्रत्याख्यानं रात्रिभोजनप्रत्याख्यानं चेहत्यापेक्षया सम्यक्कालस्वरूपपरिज्ञाने भवत्यन्यथा तु सङ्केतप्रत्याख्यानमिति ॥ १२४ ॥
तथा-शय्यासंस्तारकयोः कश्चिद्भेदोऽस्ति नवेति ? प्रश्नोऽत्रोत्तरं-शय्या सर्वाङ्गिकी संस्तारकोऽर्द्ध तृतीयहस्त्प्रमाणोऽन्या रीत्याऽनयो| भेदः अथवा शय्यैव संस्तारकः शय्यासंस्तारक इत्याचाराङ्गवृत्त्यनुसारेणाभेदोऽपीति ॥ १२५ ॥
यथा-'पुव्वसिज्जायरी जयंती' त्यत्र पूर्वशय्यातरीशब्दस्यार्थः प्रसाद्य इति प्रश्नोऽत्रोत्तरं-अपूर्वसाध्वादिः समायातस्तद्गृह एव | | प्रथम वसतिं याचते, तस्याश्च स्थानदातृत्वेन प्रसिद्धत्वात्पूर्वशय्यातरीति भगवतीसूत्रवृत्त्यनुसारेण पूर्वशय्यातरीशब्दार्थों ज्ञेय इति ॥ १२६ ॥
तथा-श्रीजिनानामवधिज्ञानं सदृशं किंवा विशेष इति प्रश्नोत्रोत्तरं-यो जिनो यतः समेति तस्य तत्स्थानसम्बन्धि प्रवर्धमान | पाऽवधिज्ञानं भवतीति न सर्वेषां जिनानामवधिज्ञानसादृश्यमिति ॥ १२७॥
तथा-चतुर्मासकपारणके मासद्वयान्तस्साधूनां वस्त्रग्रहणं कल्पते नवेति प्रश्नोत्रोत्तरं-वर्षाकाले यत्र क्षेत्रे चतुर्मासकं स्थितं तत्पूर्तावपि | तत्रान्यत्रापि च संविग्नक्षेत्रे सक्रोशयोजनप्रमाणे कारणं विना मासद्वयान्तर्वस्त्रादिग्रहणं साधूनां न कल्पते, एतदक्षराणि विस्तरतो निशीथदशमोद्देशकचूर्णी सन्तीति ॥ १२८ ॥
Jain Educati
o
nal
For Private 3 Personal Use Only
jainelibrary.org