________________
सेनप्रश्ने १उल्लासः
उपा० धर्मविजा १०७-१३६
प्रश्नोऽत्रोत्तरं-चक्रिणां चक्रादिसप्तरत्नान्यसवयेयजीवरूपाणि, दृश्यमानपृथ्वीपिण्डस्यासङ्ख्येयजीवात्मकत्वात् , तथा आगतिरप्यसङ्ख्यानाश्रित्येति | सम्भाव्यत इति ॥ ११७ ॥
___ तथा--' संभिन्नलोगनालिं, पासंति अणुत्तरा देवा' इत्यत्र संभिन्नशब्दार्थः क्वचित्पूर्णार्थः क्वचिच्चोनार्थः, तत्र किं तत्त्वमिति ! प्रश्नोऽत्रोत्तर--संभिन्नशब्दो मुख्यवृत्त्योनार्थो, यत्तु क्वापि पूण्णार्थस्तत्राप्यल्पस्याविवक्षणादूनार्थ एव ज्ञेय इति ॥ ११८॥
___ यथा--नारकिणां योजनावधिरुक्तः, तद्योजनं केनाङ्गुलेन मीयत इति ? प्रश्नोत्रोत्तरं-देवानामिव नारकिणामप्यवधिज्ञानं प्रमाणाङ्गुलयोजनेन मीयत इति ज्ञायत इति ॥ ११९ ॥
तथा—यतित्वे पूर्वकलेवरादि व्युत्सृष्टं, तन्नियमो मृते महाव्रतवद्याति नवेति ! प्रश्नोऽत्रोत्तर-महावतवत्तन्नियमो याति, परं पूर्वशरीरस्य व्युत्सृष्टत्वेन क्रिया त्वविरतिर्न लगतीति ॥ १२० ॥
तथाराजप्रश्नीये सूर्याभभवनेऽनेकपक्षिणस्तथा भृङ्गादिजीवा उक्ताः स्थानपदे च ते निषिद्धास्तत्र किं तत्त्वमिति ? प्रश्नोऽत्रोत्तरंराजप्रश्नीयोक्ताः भृङ्गादिजीवाः पृथ्वीपरिणामरूपा ज्ञेयाः, ये तु स्थानपदे निषिद्धास्ते त्रसरूपा इति ॥ १२१॥
तथा-द्रव्यलिङ्गी जानानो यदि स्वयं महाव्रतीभूय विहरति तदाऽऽराधको भवति नवेति ! प्रश्नोऽत्रोत्तरं-गुर्वादिसामग्र्यभावे यदि स्वयं | महाव्रतीभूय विहरति तदाराधकोऽन्यथा तु नेति ॥ १२२ ॥
तथा-मांसादौ द्विदलादौ च तक्रयोगे जीवा उत्पद्यमाना उक्तास्ते द्वीन्द्रिया अन्ये वेति ! प्रश्नोऽत्रोत्तरं-मांसादौ तद्योनिका निगोदरूपा
For Private
Personel Use Only