SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ तथा--श्रीस्थापनाचार्य पुरस्तादिव श्रीजिनप्रतिमापुरस्तादप्यविशेषतः सर्वा अपि प्रतिक्रमणादिक्रियाः कृताः शुद्धचन्त्युत कश्चिद्विशेष इति । | प्रश्नोऽत्रोत्तरं-कश्चिद्विशेषो ज्ञातो नास्ति, परं तासां करणं तु यथार्हमेवेति ॥ ११२॥ तथा-ये परपक्षिणस्तेषु चारित्रमस्ति नवा ! इति, प्रश्नोऽत्रोत्तरं-परपक्षिषु भगवदाज्ञाविरुद्धकर्तृकत्वाद्भावचारित्राभावः परं निश्चयस्तु केवलिगम्य इति ॥ ११३ ॥ तथा—नियुक्तिकर्तारः पूर्वधरा भवन्त्यन्ये वेति ? प्रश्नोत्रोत्तरं नियुक्तिकारिणश्चतुर्दशपूविदो भवन्तीति ज्ञायत इति ॥ ११४ ॥ तथा-इन्द्रविमाने त्रायस्त्रिशास्सामानिकाश्च तिष्ठन्त्युत पृथग्विमानेष्विति ! प्रश्नोत्रोत्तरं-'तायत्तीसाण उ कंचणाई सामाणिआण सयकता। पत्ते विमाणा दक्खिणेण कप्पेसु तिसु होति ॥ १५ ॥ व्याख्या-त्रायस्त्रिंशानां पितृव्यादिमहत्तरस्थानीयदेवानां काञ्चनानि सामानिकानामिन्द्रसमानरूपाऽऽयुष्कादिगुणग्रामाणां देवविशेषाणामेव शतकान्तानि-शतकान्तरत्नमयानि प्रत्येकं विमानानि, एकैकस्य प्रायस्त्रिंशस्य विमानमित्यर्थः, दक्षिणेन-दक्षिणस्यां दिशि व्यवस्थितेषु देवलोकेषु त्रिषु-सौधर्मसनत्कुमारब्रह्मलोकनामसु भवन्ती' ति देवेन्द्रनरकेन्द्र कसूत्रवृत्ती, एतदक्षरानुसारेण त्रायस्त्रिंशानां सामानिकानां च विमानानीन्द्रविमानात्पृथक् पृथक् सन्तीति ॥ ११५ ॥ तथा-जघन्यपदे एकोनत्रिंशदङ्केभ्य एकोऽप्यङ्कोऽधिको भवति नवेति ! प्रश्नोऽत्रोत्तरं चतुर्थकर्मग्रन्थे ' अहक्खायसुहुमकेवले ' त्या- | | दिगाथाव्याख्याने ये एकोनत्रिंशदङ्का लिखितास्सन्ति तत्प्रमाणा जघन्यपदे गर्भजमनुष्या भवन्ति, [श्री अजितवृत्तिविधया ] न त्वेकोऽप्यङ्क एकोनत्रिंशदङ्केभ्योऽधिको भवतीति तात्पर्यमिति ।। ११६ ॥ तथा-चक्रिणां चक्रादिसप्तरत्नान्येकजीवात्मक'न्यसङ्ख्यावात्मकानि वा?, तथैषामागतिरुक्ता सा एकजीवमाश्रित्य नेकान्वेति ! in Eduent al For Private & Personel Use Only Mw.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy