SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ अथ उपाध्यायश्रीधर्मविजयगणिकृतप्रश्नास्तदुत्तराणि च। यथा-श्रीतीर्थकृता पूर्वभवसङ्ख्यानं किं प्राथमिकसम्यक्त्वलामापेक्षिकमुत सम्यक्त्वलाभमात्रापेक्षिक !, प्राच्यपक्षे श्रीऋषभदेवस्य, त्रयोदश भवाः कथं सङ्गच्छन्ते? यतो भगवतः श्रीयुगादिदेवस्य धनसार्थवाहभवात्प्राक् प्रथमसम्यक्त्वलाभस्तदनन्तरं चानन्तः कालोऽगमत्, अन्यथैकसामयिकोत्कृष्टसङ्ख्याकसिद्धान्तःपातिता भगवतो न स्यात, तथा चोक्तं नन्यध्ययनटीकायामुत्कृष्टद्वारे-'येषां सम्यक्त्वपरिभ्रष्टानामनन्तः कालोऽगमत् तेषामष्टोत्तरं शतं सङ्ख्यातकालपतितानां च दशकं दशकं अप्रतिपतितसम्यक्त्वानां च चतुष्टयं, यदुक्तम्-" जेसिमणंतो कालो, पडिवाओ होइ तेसि अट्टसयं । अपडिवडिए 'चउरो, दसगं दसगं च सेसाणं "॥ १॥ इत्यादि । द्वितीयपक्षे तु श्रीऋषभदेवस्यान्येषामपि च तीर्थकृतां यथोक्तैव भवसङ्ख्या कुतः !, अन्तराऽपि सम्यक्त्ववान्तेः प्राप्तेश्च जातत्वादिति, प्रश्नोऽत्रोत्तरं-' समत्तपढमलंभो, बोद्धयो वद्धमाणस्स' इत्याद्यावश्यकनियुक्त्यादिवचनानुसारेण श्रीवीरस्य तत्समानपतिपतिततया चापरेषामपि तीर्थकृतां प्रथमसम्यक्त्वलाभापेक्षया भवगणनं ज्ञायते । या तु तत्र श्रीऋषभसिद्धिमाश्रित्य विप्रतिपत्तिः सा निरुपक्रमायुषोऽपि बाहुबलेः षड्लक्षपूर्वायुरुपक्रमणवदुत्कृष्टावगाहना सिद्धैकसामयिकाष्टशतसिद्धाश्चर्य एवान्तर्भावेन निराकरणीयेति सर्व सुस्थमिति ॥ १०७ ॥ ___ तथा तीर्थकृन्मातरश्चतुर्दशसु स्वप्नेषु दशमस्वप्ने पद्मसरः पश्यन्ति, तत्किं पद्मोपलक्षितसरोवरमात्रमुत मानससरोवरवत्पद्मसरोऽपि I द्वीपान्तरे क्वाप्यस्तीति प्रश्नोऽत्रोत्तरं-पौरुपलक्षितं सरः पद्मसर इति व्याख्यातमस्ति, द्वीपान्तरे तु तन्नामक सरो नास्तीति ॥ १०८॥ तथा-श्रीस्थूलभद्रः कोशागृहावस्थितावाहारमपि तदीयं गृहीतवानिति जनप्रवादः, परं शय्यातरपिण्डत्वेन कथं न जनप्रवाद JainEducation For Private Personal use only Snelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy