________________
सेनप्रश्ने. १ उल्लासः
उपा० विजयराज. १०४-१०६
॥१४॥
परम्परा च प्रमाणमिति ज्ञातमस्ति, तथा " आदित्योदयवेलाया, या स्तोकापि तिथिर्भवेत् । सा सम्पूर्णेति मन्तव्या, प्रभूता नोदयं विना ॥ १ ॥ इति पारासरस्मृत्यादावप्युक्तमस्तीति ॥ १०२॥
तथा-भगवत्या श्राद्धानां पञ्चदशकर्मादाननिषेधे प्रोक्ते तत्सेवनं कल्पते न वेति ! प्रश्नोऽत्रोत्तरं-श्राद्धानां पञ्चदशकर्मादाननिषेध औत्सगिको ज्ञेयः, अपवादपदे तु परिहाराशक्तौ शकटालादीनामिव तानि कल्पन्तेऽपीति ॥ १०३॥
अथ उपाध्यायश्रीविजयराजगणिकृतप्रश्नास्तदुत्तराणि च । यथा-शक्रादयो देवाः सम्भोगं कर्तुकामा देवलोकविमाने देवीभिः परिचारणां कुर्वन्ति विमानादन्यत्र वा ? तदाश्रित्य प्रसाद्यमिति प्रश्नोत्रोत्तरं-शक्रादयो देवा देवलोके स्वस्वसुधर्मसभायां देवीभिः सह परिचारणां न कुर्वन्ति, तत्र माणवकचैत्यस्तम्भसमुद्कस्थितजिनदंष्ट्राशातनाभयादित्यभिप्रायः प्रज्ञप्तिदशमशतकपञ्चमोद्देशकेऽस्तीत्युपलक्षणत्वादन्यत्र---सिद्धायतनव्यतिरिक्तस्थाने परिचारणां कुर्वन्तीति सम्भाव्यत इति ॥ १०४ ॥
तथा--श्रीमदुत्तराध्ययनप्रथमाध्ययने उर्वरथिकशब्दो रूढो यौगिको वेति प्रश्नोत्रोत्तरं-ऊर्ध्वरथिकशब्दोऽन्वर्थव्युत्पत्तिरहितत्वेन हैमव्याकरणानुसारेण रूढो 'नाम च धातुज'मिति शाकटायनमतेन तु सर्वनाममध्यपतितत्वेन यौगिकोऽपि च भिक्षाचरवाचकोsस्तीति ज्ञायत इति ज्ञेयम् ॥ १०५॥
तथा-द्रुमपत्रकाध्ययने आजवीभावशब्दोऽस्ति तदर्थः प्रसादनीय इति ! प्रश्नोऽत्रोत्तर- आजजवीभावः सातत्यभवने ' इति सिद्धान्तविषमपदपर्यायपुस्तोऽस्ति, लिङ्गानुशासनविवरणे तु संसारपर्यायतया ज्ञातोऽस्तीति ॥ १०॥
१४॥
For Private
Personel Use Only
Mallinelibrary.org