SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सेनप्र. उल्लासः ॥१३॥ त्रागमने ईप्प्रत्ययस्यैवोक्तत्वादिति, प्रश्नोऽत्रोत्तरं-पत्ययान्तात्तादृशशब्दीप्प्रत्ययभावेऽपि तादृश इति किन्ताद्भागुर्याचार्यमतेनाप्प्रत्ययागमे | Nउपा० रूपसिद्धिरिति न कोऽपि दोष इति ॥ ९३ ॥ | विवेकहर्षी. ___तथा-रक्तश्वेतसैन्धवयोरचित्तत्वे कथं पतिभेद इति प्रश्नोऽत्रोत्तरं-श्राद्धविध्युक्तरक्तश्वेतसैन्धवयोर्योकोत्पत्तिस्थानकत्वं तदा ८६-१०३. सचित्तत्वं समानमेव, परमाचरणया श्वेतः सैन्धवो योऽचित्तत्वेन व्यवह्रियमाणोऽस्ति न रक्त इति, किञ्च रक्तश्वेतयोरप्येकमेवोत्पत्तिस्थानमित्यपि नियमो ज्ञातो नास्ति, आसन्नखन्युद्भवस्यापि रक्तस्य सम्भवादिति ॥ ९४ ॥ तथा जिनालये जिनदृष्टौ स्वस्य तिलके क्रियमाणे किं पटान्तरं क्रियते नवा इति ? प्रश्नोऽत्रोत्तरं-अत्र पटान्तरं विना तिलकं न क्रियत इत्यक्षराणि न सन्तीति ॥ ९५ ॥ तथा-श्राद्धाः प्रतिक्रमणं कुर्वाणा वन्दनकदानावसरे किं मुखवत्रिकां शुद्धभूमौ मुश्चन्ति ! किमुत पादप्रोञ्छनोपरि मुखवत्रिकां मुक्त्वा वन्दनकानि ददतीति ? प्रश्नोऽत्रोत्तरं-प्रतिक्रमणं कुर्वाणाः श्राद्धा वन्दनकदानावसरे मुखवस्त्रिकां शुद्धभूमौ रजोहरणोपरि वा मुञ्चन्ति नान्यत्रेति विधिरिति ॥ ९६ ॥ | तथा-काजिकजलमभक्ष्यामिति कथमुपोषितस्य कल्पत इति ! प्रश्नोत्रोत्तरं-आरनालापरपर्यायं काजिकनलं यद्यन्यान्यदिने तत्रोष्णा| वश्रावणक्षेपः कृतो भवति तदाऽभक्ष्यं न भवति, तेनोपोषितस्य साधोः शुद्धोष्णजलालाभ उक्तत्वात्कल्पते, रानिकादिसम्पृक्तं तु नेत्येवमवश्रावणमप्युक्तत्वात्कल्पते, तस्याहाररूपता तु न भवति, तदभिप्रायाभावादिति ।। ९७ ॥ तथा- तेणं तीता अद्धा, अणागयद्धा अणंतगुणा' इत्यनया गाथयाऽतीताद्धामपेक्ष्यानागताद्धाया अनन्तगुणत्वं भगवत्यां च Jan Education International For Private Personal Use Only
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy