SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ गाथायां प्राक्तेः कथं सङ्गच्छते ? ' तिसु परमाहम्मिअकयावि' इत्यादिसङ्ग्रहणिगाथाया विसंवादादिति प्रश्नोऽत्रोत्तरं - ' तिसु परमाहम्मिअकयावि ' इति सङ्ग्रहणीवचः प्रायिकमिति न काप्यनुपपत्तिरिति ॥ ८८ ॥ तथा—पद्मचरित्रे जनन्या जैनरथ कर्षणाभिग्रहाप्राप्तिदून निर्गततापसाश्रमावस्थितजनमेजयनृपसुतामदनावल्यनुरागादि सकलचरित्रं हरिषेणचक्रिणः प्रोचे, श्रीउत्तराध्ययनवृत्तिश्राद्धविध्यादौ च महापद्मचक्रिचरित्रमिति कथमेतेषां सङ्गतिः ?, विचारणया तु रावणस्य तत्कारितप्रासादस्य दर्शनेन हरिषेणसांनिध्यमेव सङ्गतिमङ्गति, परमन्यपक्षे बहुग्रन्थसंमतिरिति बारेका समुत्पद्यत इति प्रश्नोऽत्रोत्तरं - अत्र मतान्तरमवसीयत इति ॥ ८९ ॥ तथा -- पाण्डवचरित्रे आश्विनसिताष्टम्यां कृष्णजन्मोक्तं नेमिचरितादौ लोकोक्तौ च श्रावणासिताष्टम्यामिति कथमनयोः सङ्गतिरिति ? प्रश्नोत्तरं - अत्रापि मतान्तरं ज्ञेयमिति ॥ ९० ॥ तथा पाण्डवचरित्रे जरासन्धसत्कहिरण्यनाभसेनानी भीमेन हतो हैमीयनेमिचरितादौ चानाधृष्टिसेनान्या हत इति कथं मिलतीति ? प्रश्नोत्तरं - अत्रापि मतान्तरमवसेयमिति ॥ ९१ ॥ तथा - साम्प्रतीनसकलेन्द्राणामेकावतारित्वप्रवादोऽस्ति, पद्मचरित्रे च शीतेन्द्रस्य तद्भवव्यतिरिक्ता अन्ये त्रयो भवाः प्रोक्तास्सन्तीति प्रश्नोत्रोत्तरं - साम्प्रतीनाः सर्वेऽपीन्द्रा एकावतारिण एवेत्यक्षराणि दृष्टानि न सन्तीति ॥ ९२ ॥ तथा - पाण्डवचरित्रे पोडशसर्गेऽष्टादशश्लोके 'छेकेभ्यस्तादृशाः स्त्रिय ' इत्यत्र तादृशा इतिशब्दे आप्प्रत्ययः कथमानीतः ?, टक्प्रत्ययस्या Jain Educaticational For Private & Personal Use Only www.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy