________________
Jain Education
Bara b
अथ-महोपाध्यायश्रीभानुचन्द्रगणिकृत प्रश्नास्तदुत्तराणि च
यथा--सन्ध्याप्रतिलेखनायां पश्चाद्धर्मध्वजप्रतिलेखनं विधीयते, प्रभातप्रतिलेखनायां च पूर्व, तत्र को हेतुरिति ? प्रश्नोऽत्रोत्तरं - ओघ| नियुक्तियतिदिनचर्यादिषु तथोक्तिरेव हेतुरिति ॥ ८० ॥
तथा—यस्य श्राद्धस्य प्रथमोपधानस्य वहनानन्तरं द्वादशाब्दानि जातानि सन्ति, द्वितीयस्य तु किञ्चिन्न्यूनानि स प्रथममेवेोपधानं | पुनर्वहत्युत द्वे अपीति ! प्रश्नोऽत्रोत्तरं यदि मनः स्थाने तिष्ठति तदा प्रथमं द्वितीयं च परावृत्त्य वहति, तदशक्तौ तु यस्य द्वादश वर्षाणि तत्परावृत्त्य वहतीति ॥ ८१ ॥
तथा— प्रत्यूषसमये स्थापनाचार्यजोलिकस्य स्थापनाचार्य प्रतिलेखनातः पूर्व प्रतिलेखनं, सन्ध्यायां तु पश्चात्, तत्र को हेतुरिति ? प्रश्नोऽत्रोत्तरं - स्थापनाचार्य जोलिकस्य प्रातः सन्ध्यायां च पूर्वं पश्चाद्वा प्रतिलेखने शास्त्रे नियमो नास्तीति ॥ ८२ ॥
तथा - उपधानचतुष्टयस्य मालारोपणस्य चान्तरकालः क्रियानिति ? प्रश्नोऽत्रोत्तरं - मुख्यवृत्त्या प्रथमोपधानप्रवेशानन्तरं द्वादशवर्षातिक्रमे तच्चतुष्टयं गच्छति, तेन ततोऽगेव मालारोपणं विधेयमिति ॥ ८३ ॥
तथा - चक्रवर्त्तिनो राज्याभिषेकादनु पुत्रो भवति न वेति ? प्रश्नोऽत्रोत्तरं चक्रवर्तिनो राज्याभिषेकादनु पुत्रो भवतीति श्री अजितचरित्रादौ प्रोक्तमस्तीति ॥ ८४ ॥
तथा—तीर्थङ्करा एकस्मिन् समये कति सिध्यन्तीति प्रश्नोऽत्रोत्तरं - एकस्मिन् समये उत्कर्षतः चत्वारस्तीर्थङ्कराः सिध्यन्तीति सिद्धपञ्चाशिकादौ उक्तमस्तीति ॥ ८५ ॥
For Private & Personal Use Only
ainelibrary.org