________________
सनप्रश्न. १ उल्लासः ॥ ११ ॥
यात भङ्गानेकीकृत्य भङ्गसर्वाग्रमानय, परं प्रतिप्रवेशनकं भिन्नं भिन्नं सर्व्वाप्रमायाति, प्रवेशन कभङ्गसम्बन्धस्तु न सम्भवतीति सम्भाव्यते, एवं गतिंत्रयमाश्रित्यापि यथासम्भवं ज्ञेयं, किं चैतद्विषये भगवती सूत्रवृत्योः करणं दर्शितं नास्ति, तेन लक्षतमो भङ्गो व्यक्त्यों न लिखितुं शक्यत इति ॥ ७७ ॥
तथा - ' अन्ने बिंति इगेणं ' इत्यादिभाष्यगाथा व चूर्णो गाथात्रयमस्ति तदर्थः प्रसादनीय इति प्रश्नोऽत्रोत्तरं — चैत्यवन्दनायामेकं शक्रस्तवं तद्द्द्वयं च सुखोन्नेयं मनसि सम्प्रधार्य शक्रस्तवत्रयादिप्रतिपादनपरं गाथात्रयं भाष्यावचूर्णौ उक्तमस्ति, तस्यायमर्थः – ईर्यापथिकायाः पूर्व वा प्रणिधानान्ते वा शक्रस्तवभणने 'द्विगुणचैत्यवन्दनान्ते वा इति द्वितीय चैत्यवन्दनान्ते वा शक्रस्तवभणने त्रयः शक्रस्तवा भवन्ति, अत्रैकवार . देववन्दनसम्बन्धिशक्रस्तवद्वयं त्रिष्वपि पक्षेषु सम्बन्धनीयं प्रसिद्धत्वाच्च गाथायां न सङ्गृहीतं, अथैकवारदेववन्दने शक्रस्तवद्वयमिति पू पश्चाच्छक्रस्तवाभ्यां ते चत्वारो भवन्ति, द्विगुणितदेववन्द ने द्विवारदेववन्दने वा पूर्व पश्चाद्वा शक्रस्तवे सति चत्वार इति ॥ ७८ ॥
तथा — श्रीवज्र सेनशिष्याश्चन्द्रादयः स्थविरावल्यां कथं नेोक्ताः ? अन्ये शिष्यास्तूक्ताः, ते स्वात्मपट्टावल्यां न सन्ति तत्किं कारणं तत्परम्परा च कथं मिलतीति : प्रश्नोऽत्रोत्तरं यदा माथुरी वालभी चेति वाचनाद्वयं जातं, तदा स्थविरावल्या अपि पाठभेदो जातः सम्भा व्यते, ततः कस्याञ्चिद्वाचनायां केचित् श्रीवज्रसेन सूरिशिष्याः श्रीचन्द्रसूर्यादय उक्ता भविष्यन्ति, कस्याञ्चिच्च नेति, ततः परम्परा न त्रुट्यति, कथमन्यथाऽऽत्मीयपट्टावल्यनुक्रमेण पूर्वाचार्याः सस्वग्रन्थेषु तत्तदाचार्याणां नामान्यलिखन्, ते हि बहुश्रुताः पूर्वापरयन्थानविमृश्य न लिखन्तीति ॥ ७९
Jain Education International
For Private & Personal Use Only
सोमविज० २२-७९
११ ॥
www.jainelibrary.org