SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सेनप्रश्ने. १ उल्लासः सामावज० २२-७९ ॥ १० तथा-अस्तंगते दिवानाथे जलं रुधिरतुल्यमन्नमामिषतुल्यमेतज्जिनागमे क्वापि वर्तते न वा ? इति प्रश्नोऽत्रोत्तरं-अस्तंगते दिवानाथ |N इत्यादिकं पुराणोक्तं न त्वात्मीय, रात्रिभोजनदोषस्त्वात्मीयागमे महानेवोक्तोऽस्तीति ॥ १९॥ ॥ तथा-चतुर्विंशतिदण्डकमध्ये भुवनाधिपानां दण्डकदशकं प्रोक्तम्, अपरेषां व्यन्तरादिकानां दण्डक एकैकः प्रोक्तस्तत्र किं कारणमिति प्रश्नोत्रोत्तरं-अत्र सूत्रकृतां विवक्षैव प्रमाणमिति ॥ ७० ॥ । तथा--केवलनन्दीयोगोद्वाही यदि देवान् वन्दापयति तदा शुद्धयति नवा इति प्रश्नोऽत्रोत्तरं-अत्र नन्दीयोगोद्वाहिनो योगादौ देववन्दापनं शुद्धयत्युपधाने तु नेति ॥ ७१ ॥ तथा दैवसिकप्रतिक्रमणे देववन्दनानन्तरं यानि चत्वारि क्षमाश्रमणानि दीयन्ते, तत्र प्रथमक्षमाश्रमणेन भगवन्निति कः सम्बोध्य वन्द्यते ?, | तत्र तीर्थकर इत्येके, धर्माचार्य इत्यन्ये, कश्चिच्च देवान् वन्दित्वा चतुरादिक्षमाश्रमणैः श्रीगुरून् वन्दत इति प्रतिक्रमणहेतुगर्भोक्तानुसारतो गुरुरेव वन्द्यो, गुरुस्तु यस्य पुरस्तात् प्रतिक्रमणादिकं विधीयमानमस्ति स इत्यभिदधातीत्यत्र कः पक्षो न्याय्य ? इति प्रश्नोऽत्रोत्तरं-प्रथमक्ष| माश्रणेन तीर्थकर धर्माचार्य च सम्बोध्य तद्वन्दनं विधीयत इति ॥ ७२ ॥ तथा–पौषधिकश्राद्धो द्वितीयदिने प्राभातिकप्रतिक्रमणे द्वयशनादिप्रत्याख्यानमिवागामिविषयं देशावकाशिकमपि कस्मान्न कुरुते !, अथ प्रत्याख्यातसावधव्यापारस्तदागामिविषयमपि न कुरुत इति चेत्तर्हि सामायिकस्थः कथं कुर्यादिति ! प्रश्नोत्रोत्तर-अत्रार्थेऽव्यवच्छिन्नवृद्धपरपरवै गतिर्न तु ग्रन्थाक्षरावगतिरिति ॥ ७३ ॥ |॥१०॥ Jain Educatan For Private & Personal Use Only WIFinelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy