________________
हित्ति ॥१॥" ज्योतिष्करण्डकप्रकीर्णकवचनादन्यूनपञ्चवर्षात्मकानां सर्वेषां युगानामादिभूतः श्रावण एव सम्भवति, तथा च सति तदवयवभूतस्य | | संवत्सरस्यापि श्रावणादिकत्वमेव सङ्गतिमङ्गतीति, तेन श्रीवीरनिर्वाणसंवत्सरसत्कश्रावणमासादारभ्य गणने चतुर्भिः संवत्सरैर्युगपरिसमाप्तिः, तदनन्तरं | च पञ्चभिः संवत्सरैर्युगमिति गणनया पडिंशत्यधिकचतुश्शतीमितानि युगानि व्यतिक्रान्तानि, तदानी च चतुष्षष्टयधिकषोडशशतीमितो विक्रवसंवत्सरो व्यतीतः, ततोऽपि च ताभ्यां द्वौ चन्द्रसंवत्सरावतीताविति गतश्रावणादारभ्य प्रवृत्तः साम्प्रतं तृतीयोऽभिवद्धितः संवत्सरः प्रवत्तेमानोऽस्तीति विचार्यमाणं चेतस्यौचितीमञ्चति । यत्तु युगमध्ये पौष एवं वर्द्धते तत्कथमैषमोऽब्दे आषाढो वृद्ध इति, तल्लौकिकटिप्पनानुसारेण सर्वेषां मासानां
वृद्धिदर्शनात् मासवर्द्धनमनियतमिति न काप्याशङ्केति सम्भाव्यते, निश्चिंतिस्त्वत्रापि सर्वविद्वद्येति ।। ६४ ॥ N तथा--योगशास्त्रवृत्तिगतवसुराजाधिकारे चारणश्रमणानां निशि गमनागपनं दृश्यते, अतो निशि चारणश्रमणा व्योम्नि गमनागमनं | कुर्वन्ति न वा इति प्रश्नोऽत्रोत्तर-चारणश्रमणा निशि व्योम्नि गमनागमनं कुर्वन्ति, श्रीपार्श्वनाथचरित्रादावपि तथैव दर्शनादिति ॥ ६५ ॥
तथा–सिद्धिशिलाया उपरिसिद्धव्यतिरिक्ता जीवाः सन्ति न वा?, यदि सन्ति तदा के सन्तीति प्रश्नोऽत्रोत्तरं-एकेन्द्रिया जीवास्सन्तीति १६६॥
तथा—ांगानदी षष्ठारके रथपथप्रमाणा भविष्यति न वा ? प्रश्नोऽत्रोत्तरं-गंगा यथोक्तप्रमाणा भविष्यत्यन्यास्तु चतुर्दशसहस्रमिता नद्यः | पृथिव्या भूयस्तरतापवत्त्वेन शोषं यास्यन्तीति जम्बूद्वीपप्रज्ञप्तिवृत्ताविति ॥ ६७ ॥
___तथा--जम्बूद्वीपमध्ये चतुर्दशलक्षषट्पञ्चाशत्सहस्रमिताश्चेन्नद्यः, तदा महाविदेहमध्यविजयविभेदविधात्र्यः षट् नद्योऽन्याः प्रतिवैताढ्यमध्यगोन्मन्नानिमग्नाऽभिधाना नद्यश्च सङ्ख्यामध्ये कथं नागता इति प्रश्नोत्रोत्तरं-अत्र पूर्वाचार्याणां विवक्षैव प्रमाणं, जम्बूद्वीपसंग्रहणीकारेण Mi तु साधिकसप्तदशलक्षमिता नद्यो जम्बूद्वीपमध्ये संकलिताः सन्तीति ॥ १८ ॥
Join Educa
t
ional
For Private & Personal Use Only
का
ww.jainelibrary.org