________________
सोमावजा २२-७९
सेनप्रश्ने
तथा-लोकान्तिकदेवानां यथा 'पढमजुअलंमि सत्त सयाणीति' सर्वेषां लोकान्तिकानां षष्ठाडोक्त: 'पत्ते पत्ते चउहि सामाणिअसाहस्सी१ उल्लासः IN
हिं' इत्यादिपरिवार: ? किं वा विमानाधिपतेः१, परं सामान्यतो लोकान्तिका देवा भगवन्तं विबोधयन्तीति दृश्यते न तु क्वापि तत्स्वामिन इति, तथा ॥८॥ तत्परिवारभूतानां तेषामिव भवस्थितिः किं वा विशेषो वा ? इति प्रश्नोऽत्रोत्तरं-सप्ताधिकसप्तशतादीनां लोकन्तिकानां देवानां ज्ञाताधर्मकथाङ्गोक्तः |
सामानिकादिकः परिवारः प्रत्येकं सम्भाव्यते न त्वेकस्य विमानाधिपतेः, तत्प्रतिपादनं व्यक्तशास्त्राक्षरानुपलम्भादिति, तथा रिवारभूतानां देवानां | भवस्थितिः पृथगुक्ता नास्तीति लोकन्तिकानामिव सम्भाव्यते, तत्त्वं तु सर्वविदो विदन्ति इति ॥ ५५॥
तथा-श्रीकल्पत्रसूत्रस्य स्थविरावलीप्रान्ते । देवड्डिगणिं नमसामि' इतिगाथा पुस्तकारूढकालीना उत प्राक्कालीना? , यदि पुस्तकारूढकालीना तर्हि देवडिगणिकृतत्वे स्वस्य नमस्करणमनुचितं, अन्यकृतत्वे तु सर्वा अपि स्थविरावलीगाथा अन्यकृताः कथं न भवन्ति इत्यारेका, यदि प्राक्कालीना तदाऽवेतनानां नमस्करणं कथमुचितमिति प्रश्नोऽत्रोत्तरं--इयं गाथा देवद्धिंगणिक्षमाश्रमणशिष्येणान्येन वा पाश्चात्येन केनापि स्थविरेण कृतेति । सम्भाव्यते, न चैवं सा अपि तत्कृताः सम्भावनीयाः, अनुपपद्यमानत्वाभावात्, गतिस्तु स्थितस्यैव चिन्तनीया प्रशमरतिवद्, यतः तत्राप्युमास्वातिवाचककृतायां प्रान्तगाथाकदम्बकैः तन्नमस्कारो दृश्यते, तेन तदेवान्यकृतं ज्ञेय, न च सम्पूर्णग्रन्थोऽपि, तत्र विप्रतिपत्तेरभावातू , ग्रन्थस्योमास्वातिवाचककृतत्वेन सुप्रतीतत्वादिति ॥ ५६ ॥
___तथा अन्त्यदशपूर्वधरः सिद्धान्तपाठेषु सौस्थ्यं करोतीति प्रघोषस्याक्षराणि कुत्रापि ग्रन्थे सन्ति न वा ! , यदि सन्ति तर्हि भगवतीसूत्रे श्रीदेवर्द्धिगणिक्षमाश्रमणकृतत्वेन नन्दिसूत्रस्यानुवादः कथं सङ्गच्छते? , अत्रार्थे केचन प्रश्नयन्तीति प्रश्नोत्रोत्तरं-अन्त्यदशपूर्वधरः सिद्धान्तपाठेषु |
१ भविष्यति तदातनेष्वादशेषु प्रान्त्यभागो वाचकनमस्कारान्वितः, पाठश्चायं 'प्रशमस्थेन येनासा' वित्यादिरूपः श्रीहरिमद्रीयवृत्तिगतः संभाव्यते.
Jain Education
For Private Personal Use Only
Jainelibrary.org