________________
सौस्थ्यं करोतीति वृद्धप्रवादः सर्वदाऽपि वर्तते, तदक्षराणि तु हारिभद्यां दशवैकालिकष्टत्तौ विचारामृतसङ्ग्रहे वा सन्ति, तथा च सति भगवती सूत्रे देवद्धिंग णिक्षमाश्रमणकृत नन्दी सूत्रस्यानुवादसांगत्यमाश्रित्यान्तिमदशपूर्व्वधरेण सिद्धान्तपाठेषु सम्बन्धपरावर्त्तादिरूपं सौस्थ्यं कृतं, सूत्रसङ्क्षेपस्तु देवर्द्धिगणिक्षमाश्रमणेन कृत इति सम्भाव्यते, विशेषस्तु तत्त्वविद्वेय इति ध्येयम् ॥ १७ ॥
तथा - शुष्कं लशुनं सचित्तं वाऽचित्तं वा श्रद्धीयते !, यद्यचित्तं तर्हि तथाविधकारणे तदौषधं आर्षव कार्यते न वा ? इति प्रश्नोऽत्रोत्तरंशुष्कं लशुनम चित्तं सम्मान्यते, तेन तथाविधकारणे आर्षवर्गस्यापि करणे ऐकान्तिको निषेधो नास्तीति मन्तव्यम् ॥ १८ ॥
"
तथा - सूक्ष्मनिगोदानां सामान्येन षट्पञ्चाशदधिकशतद्वयावलिकारूपमायुरुक्तमस्ति, तत्किं पर्याप्तस्यापर्याप्तकस्य वा ? यदि पर्याप्तकस्य तर्ह्यपर्याप्तकस्य न्यूनं सम्भाव्यते, एतच्चायुक्तम् एतस्मान्यूनस्यायुषः शास्त्रेऽनभिधानादू, अथापर्याप्तकस्य, तर्हि पर्याप्तकस्याधिकं सम्भाव्यते नवा ? इति प्रश्नोऽत्रोत्तरं - जीवाभिगमप्रज्ञापनादौ सूक्ष्मनिगोदानां अपर्याप्तानां पर्याप्तानां च जघन्यतोऽप्युत्कर्षतोऽपि च क्षुल्लकभवग्रहणलक्षणविशेषं विनाऽन्तमुहूर्त्तस्थितेरभिधानात्तद्वृत्तौ च पर्याप्तान्तर्मुहूर्त्तापेक्षयाऽपर्याप्तान्तर्मुहूर्त्तस्य लघुतया भणनात्, क्षुल्लकभवग्रहणस्य च कर्मग्रन्थवृत्त्यादौ सर्व्वजीवाल्पजीवितत्वेन प्रतिपादनाद्देवमवसीयते - यत्सूक्ष्मनिगोदानामपर्याप्तानां षट्पञ्चाशदधिकद्विशतीमितावलिकाप्रमाणक्षुल्लक भवग्रहणरूपं सर्व्वजघन्यमायुः, उत्कर्षतस्तु किञ्चिदधिकमपीति । पर्याप्तानां तु जघन्यतोऽप्युत्कर्षतोऽपि च सुतरामधिकमेवेति, अनयैव च रीत्या पर्याप्तापर्यातस्थितिप्रतिपादकसूत्रमपि सुस्थं भवतीति ॥ ५९ ॥
तथा—पर्युषितद्विदलपोलिकादिनिषेधविषये यदि परेषां दर्शनार्हग्रन्थगतान्यक्षराणि भवन्ति तदा प्रसायानीति, प्रश्नोऽत्रोत्तरं - बृहत्कल्पपश्ञ्च मोद्देशक वृत्तिप्रान्ते पर्युषितपूपालिकादिषु लालासम्मूर्च्छनात्तद्धेतुका च साधूनां संयमविराधना प्रोक्ताऽस्ति सा च लालाया जीवमयत्व -
Jain Education Intional
For Private & Personal Use Only
ainelibrary.org