SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ तथा-कृतानन्तवनस्पतिप्रत्याख्यानिनां भूमिकूष्माण्डं तापादिव्यतिरेकेण शुष्क वाऽऽद वा कल्पते, किंवा श्राद्धविध्युक्तसंस्कृतार्द्रकवदकल्प्यं !, | यतस्तद्वल्लीपत्राण्येवोय दृश्यन्ते फलानि भूमिगतान्येवेति प्रश्नोत्रोत्तरं-भूमिकूष्माण्डं सम्यक्तया शुष्क सदनन्तवनस्पतिप्रत्याख्यानिनामौषधादिकारणे ग्रहीतुं कल्पत इति व्यवहारो दृश्यते, परं तदातपं विना सम्पूर्णतया शुष्कं न भवतीति तत्स्वरूपविदो विदुरिति ॥ ५२ ॥ तथा-आवश्यकसूत्रवृत्यादौ जीर्णचरित्रादौ च केवलिनः समवसरणे समागत्य तीर्थ तीर्थकरं गणधरं नत्वा स्वपदि समुपविशन्ति, वन्दारुवृत्तौ " गौतमस्तु जिनोपान्ते, ययौ यावद्विवन्दिषुः । प्रचेलुस्तेऽथ शालाद्यास्तावत्केवलिपर्षदि"॥१॥ ततस्तान् गौतमोऽवादीद्वन्दध्वं किं न भो ! विभुम् ! । स्वाम्यूचे केवलज्ञानभाजो माऽऽशातयनकान ॥२॥" इति पक्षद्वये कः पक्षः पृच्छकस्य निरूपणीय इति ? प्रश्नोत्रोत्तरं-तीर्थकरं त्रिः प्रदक्षिणीकृत्य तीर्थप्रणामं च कृत्वा केवलिनः स्वपर्षदि व्रजन्तीति भावार्थकान्यक्षराण्यावश्यकतृत्त्यादौ सन्ति, यत्तु शालाद्या एवमेव स्वपर्षदि जग्मुः तत्तु चरितानुवादरूपं प्रवर्तकं निवर्तकं च न भवतीति ॥ ५३॥ तथा--केषुचिरन्थेषु दानप्रदानात्पूर्व लोकान्तिका देवास्तर्थिकृतां दीक्षाकालं ज्ञापयन्ति, षष्ठाने तु पूर्वं दानं तदनु तेषां विज्ञप्तिरित्यत्र को विशेष इति, प्रश्नोऽत्रोत्तरं-तीर्थकृतां लोकान्तिकदेवकृतसम्बोधनोत्तरकालं सांवत्सरिकदानप्रवृत्तिस्तदनन्तरं वा लोकान्तिकदेवकृतं सम्बोधनं भवतीति ज्ञायते, एतदक्षराणि तु हारिभद्रयामावश्यकवृत्ती महावीरदानाधिकारे सन्तीति ॥ ५४ ॥ JainEducation For Private Personel Use Only
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy