________________
सेनप्रश्ने.
तथा-'तिब्बारपनरगारस' इत्यादिगाथाऽनुसारेण तपोरूपं प्रायश्चित्तं दीयमानमास्ति, परमेता गाथाः कस्मिन् ग्रन्थे सन्तीति ! सोमविज. १उल्लासः प्रश्नोऽत्रोत्तरं-तिब्बारे । त्यादिगाथा ग्रन्थस्था दृष्टा इति न स्मृतिमियर्ति, किन्तु पारम्पर्यागताः छुटितपत्रस्था एवेति ॥ ४७ ॥
२२-७९ तथा-वरकनकशङ्खविद्रुममरकतघनसंनिभं विगतमोहं' इत्यत्र जिनानां पञ्चापि वर्णा उक्तास्सन्ति, परं वर्तमानजिनानां सुवर्णवर्णः क्वचित्स्तोत्रादौ लिखितोऽस्तीति तेषां कथं पञ्चवर्णत्वं संगच्छत इति प्रश्नोऽत्रोत्तरं-'वरकनकेत्यादिगाथायां ये पञ्च वर्णास्तीर्थ-IN कृतामुक्ताः सन्ति ते यौक्तिका एव, यत्पुनर्वर्तमाननिनानां स्तोत्रादौ लिखितः सुवर्णवर्णः स साम्प्रतीनविहरमाणजिनापेक्षया भविष्यतीति - ज्ञायते, यतः छुटितपत्रेषु विहरमाणजिनकविंशतिस्थानके च श्रीसीमन्धरादीनां विंशतेरपि तीर्थकृतामेक एव कनकवर्णो लिपीकृतो दृश्यत इति ॥४८॥
तथा—जिनवल्लभसूरिकृतप्राकृतालापकरूपदीपालिकाकल्पे लिखितमस्ति 'पडिमारूवो सावगधम्मो वुच्छिजिस्सइ' इति, तेन तत्रत्य| पुस्तकेष्वयं पाठोऽस्ति न वा ? इति प्रश्नोऽत्रोत्तरं-जिनवल्लभसूरिकृत आलापकरूपो दीपालिकाकसो दृष्टो नास्ति, जिनप्रभसूरिकृतस्त्वत्रालापकरूप KI एव वर्तते, तत्र च ' पडिमारूवो सावगधम्मो वुच्छिज्जिस्सइ । इत्यक्षराणि सन्तीति ।। ४९ ॥
तथा-उत्सर्पिणीकाले चरमतीर्थकृतस्तीर्थ कियत्कालं प्रवर्तिष्यत इति प्रश्नोऽत्रोत्तर-पञ्चमांगे विंशतितमशतकेऽष्टमोद्देशे श्रीऋषभजिनकेवलपर्यायं यावदुल्सप्पिणी काले चरमतीर्थकृतस्तीर्थ प्रवर्तिष्यति इति उक्तमस्तीति ॥५०॥
तथाचतुरधिकद्विसहस्रमितयुगप्रधानाः सिद्धान्ते प्रोक्तास्ते साम्प्रतं क्व सन्तीति प्रश्नोत्रोत्तरं-साम्प्रतं युगप्रधानाः सन्तीति ज्ञातं नास्ति, दृश्यन्तेऽपि च न, तेन तृतीयोदयात्प्रारभ्य ते भविप्यन्तीति ज्ञायते ॥ ११ ॥
JainEducation
For Private Personel Use Only