________________
नीति, प्रश्नोत्रोत्तरं-जिनकल्पिकानामेकावतारित्वप्रघोषमाश्रित्य तथा च तेषां वस्त्राभावे नान्यदर्शनाभावमाश्रित्याक्षराणि तु शास्त्रे दृष्टानि न स्मरन्तीति ॥ ४२ ॥
तथा-उत्तरवैक्रियशरीरं सातिरेकलक्षयोजनप्रमाणं प्रोक्तमस्ति, परं तानि योजनानि कर्तुरात्माङ्गुलप्रमाणेनोत्सेधाङ्गुलप्रमाणेन प्रमाणाङ्गुलप्रमाणेन वा इति प्रश्नोऽत्रोत्तरं-उत्तरवैक्रियशरीरमुत्सेधाङ्गुलेन वाऽऽत्माङ्गुलेन वा प्रमाणाङ्गुलेन वा स्वशक्त्यनुसारेण भवत्वित्यत्र न कोऽप्याग्रह इति ॥ ४३ ॥
तथा आवश्यकहारिभद्रयां श्री हरिभद्रसूरिभिः श्रुतदेवतानमस्कारः प्रथमपद्येऽकारि, स साधूनां कथमुचितो ? , न चात्र श्रुतरूपा देवतेति वक्तुं युक्तं, प्रतिक्रमणहेतुगर्भ श्रुतदेवताया देवतारूपेण भावितत्वादिति ? प्रश्नोत्रोत्तरं-श्रुतस्य ज्ञानरूपत्वेन परममोक्षाङ्गत्वात् श्रुताधिष्ठातृदेवताया अपि स्मरणादिना स्थाने स्थाने कर्मक्षयहेतुत्वेनाभिहितत्वात् श्रुतोपकारकतया तन्नमस्कारोऽपि पूर्वाचाराचीर्ण इत्यत्राऽऽचरणव प्रमाणमिति ॥ ४४ ॥
तथा–आत्मभिर्विधीयमानः पञ्चशक्रस्तवैर्देववन्दनविधिः कुत्रापि ग्रन्थेऽस्ति परम्परागतो वा!, यतः प्रवचनसारोद्धारादिग्रन्थे त्वन्यथा | वर्त्तत इति, प्रश्नोऽत्रोत्तरं-आत्मभिर्विधीयमानः पञ्चशक्रस्तवैर्देववन्दनविधिः कियान् योगशास्त्रवृत्तिसंघाचारवृत्त्याद्यनुसारेण कियांश्च परम्परयेति प्रवचनसारोद्धारादौ कियति भेदेऽपि न कोऽपि वितर्कः, तस्यापि सुविहिताचरितत्वात, गणधरसामाचारीष्वपि क्रियाभेदाभ्युपगमाच्चेति ।। ४५॥
तथा-एकस्मिन्निगोदेऽनन्ता जीवाः प्रतिसमयं प्रविशन्ति प्राक्तनाश्चानन्तास्तस्मान्निर्गच्छन्तीति प्रोक्तमस्ति, परमेवं गमनागमने सति | स निगोदः कियत्काले तिष्ठतीति, प्रश्नोऽत्रोत्तरं-यदि प्रज्ञापनावृत्त्यादौ प्रत्युत्पन्नवनस्पतीनामपि निर्लेपनं प्रत्यादिष्टं तदा सम्पूर्णनिगोदावस्थानकालस्येयत्ता वक्त्तुं कथं शक्यत इति ॥ १६ ॥
Jain Education
a
l
For Private & Personal use only
RYDainelibrary.org