________________
सेनपने I
१ उल्लास
सोमविजा २२-७९
॥
६
॥
उत्तरकालश्चावशेषोऽवतिष्ठते, इह परमवायुदेवनैरयिका बध्नन्तीत्ययमसक्षेपकालः' इति श्रीस्थानाङ्गषष्ठाध्ययनवृत्त्युपान्ते प्रोक्तमस्तीति, परं 'बन्धन्ति देवनारय असंखतिरिनर छमाससेसाउ' इत्यादिवचसा कथं संवादः ? इति प्रश्नोऽत्रोत्तरं--बन्धन्ति देवनारयेत्यादिवचनं प्रायिक, तेन केषाञ्चिदेवनारकाणां शेषेऽन्तर्मुहूर्तेऽप्यायुर्बन्धो भवतीति मतान्तरं अवसीयते इति न कोऽपि विसंवाद इति ॥ ३९॥
तथा-प्रज्ञापनातृतीयपदे भवसिद्धिकद्वारे 'तेभ्योऽपि भवसिद्धिका अनन्तगुणाः, यतो भव्यनिगोदस्यैकस्याप्यनन्तभागकल्पाः सिद्धाः, भव्यजीवराशिनिगोदाश्चासङ्ख्येया लोके' इत्यत्र निगोदानां भव्येतिविशेषणात्केवलभन्यजीवाश्रिता निगोदा अन्यथा वा ?, यदि केवलभन्याश्रिता निगोदा | भवन्ति तर्हि केवलाभन्यजीवाश्रिता अपि ते भवन्ति न वेति ? प्रश्नोत्रोचरं-निगोदानां भव्येतिविशेषणं भव्यानां प्राधान्यख्यापनार्थ तेनाभव्या अपि तत्रैवान्तर्भवन्ति, न त्वभव्यानां पृथक् निगोदा उक्तास्सन्तीति ॥ ४०॥
तथा-ऐशाने सौधर्मे ज्योतिश्चक्रे व्यन्तरनिकाये असुरादिनिकाये च प्रत्येकं देवेभ्यो देवीवर्गो द्वात्रिंशदधिकद्वात्रिंशद्गुण इति प्रज्ञापनायां | महादण्डके प्रोक्तमस्ति, अन्यत्र तु “तिगुणा तिरूवअहिआ' इत्यादिवचनात्सर्वसुरेभ्यः सर्वदेवीवर्गो द्वात्रिंशदधिकद्वात्रिंशद्गुण इति, अत्रोत्तरं वचनं | कथं संगच्छते !, प्रज्ञापनायां सनत्कुमारादिदेवेभ्यो देवानामधिकत्वाप्रतिपादनादिति प्रश्नोऽत्रोत्तरं-ईशानादिषु यद्देवापेक्षया देवीनां द्वात्रिंशदधिकद्वात्रिंशद्गुणत्वं तदीशानादिदेवभोग्यदेव्यपेक्षयाऽवगन्तव्यं, तेनाधिका अपि तत्र देव्यस्सम्भाव्यन्ते, ताश्च सनत्कुमारादिदेवापेक्षया गण्यमाना द्वात्रिंशदधिकद्वात्रिंशद्गुणा भवन्तीति न कश्चन प्रज्ञापनोपानतिगुणातिरूवअहिअत्तिगाथोक्तभावार्थयोर्भेद इति ॥ ४१ ॥
तथा—जिनकल्पिकानामेकावतरित्वप्रघोषस्सत्योऽसत्यो वा !, तथा तेषामेव वस्त्राभावे नाश्यदर्शनाभावसूचकाक्षराणि भवन्ति तदा प्रसाद्या
Jain Educati
o
nal
For Private & Personel Use Only
Mainelibrary.org