________________
Jain Educa
न यातीति श्रुतमस्तीति ? प्रश्नोऽत्रोत्तरं - अस्वाध्यायदिनत्रयसत्कं तपः प्रवेदनं च न यातीति वृद्धवादोऽत एव षोडशदिने वाचना प्रदीयमानाऽस्ति, वाचनानन्तरं च प्रवेदनरहितं पौषधत्रयं कार्यत इति ॥ ३४ ॥
तथा - सौधर्मादिदेवलोकेषु प्रतिप्रतरं सकलविमानानामाधारभूतैका भूमिरस्ति न वा ? इति प्रश्नोऽत्रोत्तरं सकलविमानानामाधार भूतका भूमिर्नास्तीत्यवसीयते, यतो भगवत्यादौ पृथवीप्रश्ने रत्नप्रभादय ईषत्प्राग्भारपर्यन्ता अष्टावेव पृथिव्य उक्ताः सन्ति न त्वधिका इति ॥ ३५ ॥ तथा — स्थानासूत्रपञ्चमाध्ययनद्वितीयोद्देशके ' राइमोअणं भुंजमाणे ' इत्यस्य वृत्तौ दिवागृहीत दिवाभुक्तमिति भगकस्य कथं रात्रिभो - जनता : पर्युषितरक्षणादन्यथा वेति ?, प्रश्नोऽत्रोत्तरं - रात्रिभोजनचतुर्भङ्गयां दिवागृहीतं दिवाभुक्तमिति भङ्गकस्य पर्युषितरक्षितभक्षणेन रात्रिभो जनता ज्ञेया, हारिभद्यां दशवैकालिकत्तौ पाक्षिकसूत्रवृत्तौ च सन्निधिपरिभोगाधिकारे तथैव प्रतिपादनादिति ॥ ३६ ॥
तथा - मनुष्यः पशुर्वा देवलोकं गतस्सन् प्रायः सिद्धान्तादौ प्राग्भवसम्बन्धिनाम्ना व्यपदिश्यते, तत्र को हेतुः १, देवलोके देवानां किं शाश्वतानि नामानि न सन्तीति ? प्रश्नोऽत्रोत्तरं देवलोकं गतानां प्राग्भवसम्बन्धिनाम्ना (यो) व्यपदेशः सोऽत्रत्यानां सुखेन प्रतीत्यर्थोऽन्यथा देवलोकेऽपि विमानासनादिनिमित्तकानि शाश्वतानि नामानि सम्भवन्त्येवेति ॥ ३७ ॥
तथा - अत्र योगविधिप्रान्ते लिग्वितमस्ति यत् 'प्राभातिककालो वैरात्रिककालस्थाने स्थाप्यते' इत्यत्राकसन्ध्यादिकारणे एतत्स्थापनमन्यथा वेति ! प्रश्नोऽत्रोत्तरं प्राभातिककालस्थाने वैरात्रिककालस्थापनमाकसन्ध्यादिकारणे सति गुर्व्वाज्ञया शुध्यति, योगविध्यादौ तथैव प्रतिपादनादिति ॥ ३८॥ तथा——— देवनैरयेिकैरपि यदि षण्मासे शेषे आयुर्न बद्धं तत आत्मीयस्यायुषः पण्मासशेषं तावत्सङ्क्षिपन्ति यावत्स जघन्य आयुर्वन्नकाल
mational
For Private & Personal Use Only
1547
ww.jainelibrary.org