SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ तथा-जिनानामन्तरेषु साधुविच्छेदे सति प्रत्येकबुद्धादिः केवली भवति न वा !, यदि भवति तीन्येषां धर्म कथयति न वेति ! प्रश्नोऽत्रोत्तरं-तीर्थोच्छेदे प्रत्येकबुद्धादेः केवलित्वभवने साक्षादक्षराणि प्रवचनसारोदारवृत्त्यादौ दृश्यन्ते, परं परेषां धर्मकथने निषेधाक्षराणि ग्रन्थे दृष्टानि न स्मरन्तीति ॥ २९ ॥ तथा-समवसरणे तृतीयवप्रद्वारेषु द्वारपालमाश्रित्य “ प्रतिवद्म प्रतिद्वारं, तुम्बरुप्रमुखाः सुराः । दण्डिनो हि प्रतीहाराः, स्फारशृङ्गारिणोऽभवन् ॥१॥” इति वृद्धश्रीशत्रुञ्जयमाहात्म्ये । तथा-"द्वारेषु रौप्यवप्रस्य, प्रत्येकं तुम्बरुः स्थितः । नमुण्डमाली खट्वाङ्गी, जटामुकुटभूषितः॥१॥" इति श्रीशान्तिनाथचरित्रे ॥ तथा-" अन्यवने प्रतिद्वारं, तस्थौ द्वास्थस्तु तुम्बरुः। खट्वांगी नृशिरः स्रग्वी, जटामुकुटमण्डितः॥१॥" इति श्रीहेमवीरचरित्रे । तथा-तइय बहि सुरा तुम्बरु खटुंगिकवालि जडमउडधारी । पुब्बाइदारवाला तुम्बरुदेवो अ पडिहारो ॥१॥ इति 'थुणिमो केवलिवत्थं' इति स्तोत्रे इति मतान्तराणि दृश्यन्ते, तेन नवीनप्रारब्धसमवसरणे किंनामानः किमायुधाश्च प्रतीहारा विधीयन्ते !, तथा प्रतिद्वारमेको द्वौ वेति व्यक्त्या प्रसाद्यमिति ! प्रश्नोऽत्रोत्तरं-नवीनप्रारब्धसमवसरणे समवसरणस्तोत्रानुसारेण प्रतीहाररूपाणि विधेयानि, प्रतिद्वारं च “वीए देवीजुअला " इतिपदस्योपलक्षणपरत्वेन प्रतिहाररूपद्वयं समानायुधं | भवतीति समवसीयत इति ॥३०॥ तथा-चतुर्दशपूविणा जघन्यतोऽपि षष्ठदेवलोके उपपाताक्षराणि कुत्र सिद्धान्ते सन्तीति व्यक्त्या प्रसाद्यमिति ? प्रश्नोत्रोत्तरं-चतुर्दश| पूर्दिवणां जघन्यतो लान्तकं यावद्दतिमाश्रित्य भगवतीवृत्तौ महाबलाधिकारे जिनभद्रगणिक्षमाश्रमणकृतबृहत्संग्रहणीसूत्रादौ च स्पष्टतया Jain Educatis tic For Private Personal Use Only
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy