________________
सेनप्रश्. । १ उल्लासः
सोमविजः २२-७९ ।
॥४॥
तथा–भरतक्षेत्रसम्बन्धिमागधादितीर्थानि जगत्या अर्वाक् सन्ति लवणसमुद्रे वेति ! प्रश्नोत्रोत्तरं-भरतक्षेत्रसम्बन्धिमागधादितीर्थानि जगत्याः परतो लवणसमुद्रेऽवसीयन्ते, यतो जम्बूद्वीपसमासे भरतक्षेत्रवर्णनाधिकारे मागधवरदामप्रभासतीर्थद्वारामत्याद्युक्तमस्तीति ॥ २६ ॥
तथा-"पणकोडि अटुसट्टी, लक्खा नवनवइसहस्स पंचसया । चुलसीअहिआ रोगा, छट्टे तह सत्तमे नरए"॥१॥ इयं | गाथा क्वास्ति !, प्रथमादिनरकेषु च कियन्तो रोगास्सन्तीति ! प्रश्नोऽत्रोत्तरं-इयं गाथैतत्पाठरूपा ग्रन्थे दृष्टा न स्मरति, एतद्भावार्थरूपा तु | वर्त्तते, यथा-" रोगाणं कोडीओ, हवंति पंचैव लक्ख अडसट्ठी । नवनवइसहस्साई, पंचसया तहय चुलसीई ॥ १॥" एते रोगा अप्रतिष्ठाने , नरकावासे नित्या अन्यत्रापि च सम्भवन्ति यथायोगं, ततश्च यस्मिन्नरभवे एतावन्तो रोगाः क्षयहेतवस्तस्मिन् धर्म एवं सार इत्यादरणीयस्सशक्त्येत्युपदेशरत्नाकरे पञ्चविंशत्यधिकैकशतपत्रमितपुस्तके एकाशीतितमपत्रे ॥ २७ ॥
तथा सामायिकाध्ययनादीनां कान्युपधानानि धर्धामस्थानां ?, परस्यानुयोजने किं प्रतिवचः प्रदीयत इति ! प्रश्नोऽत्रोत्तरं-महानिशीथादौ | चैत्यवन्दनसूत्राणामेवोपधानान्युक्तानि सन्ति, न तु सामायिकाध्ययनादीनां । यच्चोपधानमन्तरापि सामायिकादीनां पठनं तत्र जीतव्यवहारः सम्प्रदायश्च | प्रमाणं, यदुक्तं-" श्रावकाः पञ्चनमस्कारादि कियत्सूत्राणि विमुच्य शेषं सामायिकादि षड्जीवनिकान्तं सूत्रमुपधानमन्तरेण यत्पठन्ति यच्चाकृतोपधानतपसोऽपि प्रथमं नमस्कारादीस्तत्र जीतव्यवहारस्सम्प्रदायश्च प्रमाणमिति सम्भाव्यत इति विचारामृतसंग्रहे श्राद्धप्रतिक्रमणविचाररूपे | षष्ठद्वारे इति ।। २८॥
गृहस्थानां.
Jain Education
For Private & Personel Use Only
Pralainelibrary.org