SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ अथोपाध्यायश्रीसोमविजयगणिकृतप्रश्नास्तदुत्तराणि च यथा--देवादिक्रियं कुर्वाणो यदैकेन्द्रियादिपञ्चेद्रियपर्यन्तं जीवरूपं करोति तदा निजात्मप्रदेशांस्तत्र प्रक्षिपति, एवमचेतनं स्तम्भादिपदार्थ विकुणिस्तान् प्रक्षिपति न वा ? इति प्रश्नोऽत्रोत्तरं-- अचेतनं स्तम्भादिपदार्थ विकुर्वाणो जीवप्रदेशान्न प्रक्षिपतीति ज्ञायते, यतो जीवाभिगमे चतुर्थपतिपत्तौ देवगत्यधिकारे- सोहम्मीसाणदेवा किं एगत्तं पहू ! विउवित्तए ! पुहत्तं पहू विउवित्तए !, " इत्यादिसूत्रे सम्बन्धाइंपि असम्बन्धाइंपि, इत्यत्रासम्बन्धाइंपीरयेतद्व्याख्यानेऽसम्बन्धान्यात्मप्रदेशेभ्यः पृथग्भूतानि प्रासादघटपटादीनीत्युक्तमस्तीति ॥ २२ ॥ तथा--पिण्डविशुद्धिविधाता जिनवल्लभगणिः खरतरोऽन्यो वा ? इति प्रश्नोत्रोत्तरं--निनवल्लभगणेः खरतरगच्छसम्बन्धित्वं न सम्भाव्यते, यतस्तत्कृते पौषधविधिप्रकरणे श्राद्धानां पौधमध्ये जेमनासरदर्शनात्कल्याणकस्तोत्रे च श्रीवीरस्य पञ्चकल्याणकप्रतिपादनाच्च तस्य सामाचारी भिन्ना खरतराणां च भिन्नेति ॥ २३ ॥ तथा--जम्बूद्वीपे सर्वसङ्ख्यया षट्पञ्चाशत्सहस्राधिकचतुर्दशलक्षप्रमिता नद्यो जम्बूद्वीपप्रज्ञप्तौ प्रोक्तास्सन्ति, तत्र प्रत्येकमष्टाविंशतिसहस्रनदीपरिकरितानामन्तदीनामगणने को हेतुरिति ? प्रश्नोऽत्रोत्तरं-अन्तर्नदीनां परिवारागणने जम्बूद्वीपसंग्रहण्यादौ चतुरशीतिसहस्रमितानां कुरुक्षेत्रनदीनामगणनमिव पूर्वाचार्याणामविवव हेतुः सम्भाव्यत इति ॥ २४ ॥ तथा--द्वादशवतपौषधिकानां चत्तारिअट्ठद्ससक्तपौषधिकानां चालोचनाप्रायश्चित्तप्रदानमुपधानानुसारेणान्यथा वेति ? प्रश्नोऽत्रोत्तरं--द्वादशवतपौषधिकादीनां प्रायश्चित्तप्रदानं सामान्यतो जीवघातादौ यादृगापतति तदनुसारेण न तूपधानाद्यनुसारेणेति सम्भाव्यत इति ॥२५॥ in Educ a tional For Private Personal Use Only क ww.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy