________________
कल्याणवि. १३-१८ मेघविज० १९-२१
ॐ
सेनप्रश्ने | | वसणसवइटिसक्कारे ॥ १॥” इति आवश्यकनियुक्तौ मिथ्यादृशा सम्यक्त्वप्राप्तिहेतुष्वकामनिर्जराया उक्तत्वात् केषाञ्चिच्चरकपरिव्राजका- | १ उल्लासः
दीनां स्वाभिलाषपूर्वकं ब्रह्मचर्यपालनादत्तादानपरिहारादिभिर्ब्रह्मलोकं यावद्गच्छतां सकामनिर्जराया अपि सम्भवाच्चेति ॥ १७ ॥ 10 तथा-उत्सूत्रप्ररूपका महाव्रतपालनतपश्चरणादिकां क्रियां कुर्वन्तः कर्मलघुका भवन्ति न वा इति ? प्रश्नोऽत्रोत्तरं-उत्सूत्रप्ररूपका
महाव्रतपालनादिक्रियासहिता निह्नवादय उत्कर्षतो नवमौवेयकं यावद्यान्ति, तेन महाव्रतपालनादिक्रियावतां तजन्यं शुभफलं भवतु, परं तेषा कर्मणा लघुकता गुरुकता च सर्वद्विद्येति ॥ १८ ॥
अथोपाध्यायश्रीमेघविजयगणिकृतप्रश्नास्तदुत्तराणि च यथा-श्रीभगवत्यां चतुलेोकपालानां स्वस्वादिक्षु स्थितिः प्रतिपादिताऽस्ति, परं तेषा ग्रह १ दण्ड २ डिम्बा ३ तिवर्षा ४ ऽयआकरादीनि ५ पृथक् पृथक् कृत्यानि दक्षिणस्यामेव प्रोक्तानि नान्यदिक्षु, तत्र किं नियामकम् इति ? प्रश्नोऽत्रोत्तरं-श्री भगवत्यां यल्लोकपालानां पृथक् पृथक् कृत्यानि दक्षिणस्यामेव प्रोक्तानि तन्मेरोरपेक्षया, न तु सौधर्मेन्द्रनिवासभूतविमानापेक्षया इति ॥ १९ ॥
तथा-कल्पकिरणावल्यां मरुदेव्यध्ययनं विभावयन् वीरः सिद्धिं गतः, तत्र मरुदेव्यध्ययनं कया रीत्या विभावितम्, तत्सम्यक् प्रसाद्यः | मिति ? प्रश्नोऽत्रोत्तरं-कल्पमूत्रावचौँ मरुदेव्यध्ययनं विभावयन्-प्ररूपयन्नित्येव व्याख्यातमस्ति, न तु विभावनरीतिरिति ॥२०॥
तथा-पाक्षिकक्षामणाऽवसरे श्राद्धाः प्रत्येकं नमस्कारान् मनोमध्ये कथयेयुः किं वा नेति ! प्रश्नोत्रोत्तरं-क्षामणाऽवतरे यतिसद्भावे श्राद्धा नमस्कारं न पठन्ति, किन्तु यतिभिः पठ्यमानं क्षामणकपाठं शृण्वन्ति, यतीनामभावे तु नमस्कारं पाक्षिकसूत्रस्थाने प्रतिक्रमणसूत्रं च परम्परया पठन्तत्यित्रसेयम् ॥ २१ ॥
॥
३
॥
Jain Education inta
For Private
Personal Use Only