SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ अथ सूर्यपुरीयश्राद्धकारितोपाध्यायश्रीकल्याणविजयगणिकृतप्रश्नास्तदुत्तराणि च यथा-एकः पार्श्वस्थादिर्मूलकादिषु दुष्टकर्मकारी परं शुद्धप्ररूपकोऽपर उत्सूत्रप्ररूपकः परं तपःप्रभृतिभूयःक्रियावान् एतयोर्मध्ये को | गौरववान् कश्च लाघववानिति ! प्रश्नोत्रोत्तरं-एतयोर्मध्येऽयं गुरुरयं च लघुरिति निर्णयः कत्तै न शक्यते, तथाविधसिद्धान्ताक्षरानुपलम्भाज्जी| वपरिणामानां वैचित्र्याच, सर्वथा निर्णयस्तु सर्वविद्वद्यो, व्यवहारवृत्त्या तूत्सूत्रप्ररूपको गौरववानिति सम्भाव्यते ॥ १३ ॥ तथा-अगीतार्थस्य स्वातन्त्र्येण विहारेऽनन्तसंसारितैकान्तिक्यन्यथा वेति प्रश्नोऽत्रोत्तरं--अगीतार्थस्य स्वातन्त्र्यविहारे अनन्तसंसा. रिता प्रायिकीति ज्ञायते, कर्मपरिणतेचिच्यादिति ॥ १४ ॥ तथा-साधूनां मासकल्पादिविधिना विहार एकान्तिकोऽन्यथा वा इति ? प्रश्नोत्रोत्तरं-साधूनां मासकल्पादिविहारो नैकान्तिको, यतः कारणाभावे ते मासकल्पादिविधिनैव विहरन्ति, कारणे तु " पंचसमिआ तिगुत्ता, उज्जुत्ता संजमे तवे चरणे । वाससयंपि वसंता, मुणिणो आसहग भणिआ ॥१॥" इत्यादिवचनाहहुतरमपि कालमेकत्र तिष्ठन्तीति ॥ १५ ॥ तथा इहलोकार्य एकाक्षनालिकेरादिपूजने मिथ्यात्वं भवति न वा इति ? प्रश्नोत्रोत्तरं-ऐहिकफलाथै दक्षिणावर्त्तशङ्खादेखि एकाक्षनालिकेरादेरपि पूजने मिथ्यात्वं ज्ञातं नास्तीति ॥ १६ ॥ तथा-सम्यग्दृष्टिव्यतिरिक्तानां जीवानां सर्वथा निर्जरा नास्त्येव ? काचिदस्ति वा इति ? प्रश्नोऽत्रोत्तरं-सम्यग्दृष्टिव्यतिरिक्ताना जीवानां सर्वथा निर्जरा नास्ति एव इति वक्तुं न शक्यते । “ अणुकंपऽकामनिजर, बालतवे दाणविणयविन्भंगे । संजोगविपओगे JainEdunia. For Private Personal use only Matinelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy