________________
सेनप्रश्ने. १ उल्लासः
मुनिविजः १-१२
॥
२॥
तथा-सान्ध्यप्रतिक्रमणस्वाध्यायप्रान्तवदन्येष्वपि स्वाध्यायप्रान्तेषु संपूर्णो नमस्कारः कथनीयो न वेति ! प्रश्नोऽत्रोत्तरं यत्रादेशद्वयं तत्र | स्वाध्याये नमस्कारद्वयभणनं, यत्र चैकादेशस्तत्रैक एव नमस्कारः पठनीय इति । सान्ध्यप्रतिक्रमणस्वाध्यायप्रान्ते संपूर्णनमस्कारपठनं सामाचार्यादौ न दृश्यते, परम्परया तु दृश्यते, तेन तदपि मङ्गलरूपत्वाददोषमेवेति ॥८॥
तथा--पाक्षिकक्षामणकान्ते 'इच्छामो अणुसटुिंति' गीतार्थमन्तरेणान्यैर्भणनीयं न वेति ? प्रश्नोत्रोत्तरं- इच्छामो अणुसदिति ' सर्वैः | पठनीयं सामाचार्या प्रोक्तमाति इति ॥९॥ | तथा-मत्ताङ्गदादयो वनस्पतिविशेषाः अभ्रादिवद्विश्रसापरिणामपरिणता न वेति ? प्रश्नोत्रोत्तरं-मत्ताङ्गदादयो जीवाभिगमवृत्त्याद्यनुसारेण विश्रसया-स्वभावेन तथाविधक्षेत्रादिसामग्रीजनितेन विश्रसापरिणामपरिणतास्सन्ति, ऋषिदत्ताकथादौ तु कल्पद्रुमनीजवपनादिदर्शनाद्वनस्पतिविशेषा अपि ज्ञायन्ते इति ॥ १०॥
तथा-चिर्भटकप्रभृति सबीजवस्तु वह्नितापमन्तरेण केवलराजिकासंस्कारेणाचित्तं भवति न वा इति ! प्रश्नोऽत्रोत्तरं-आमचिर्भटकप्रमुखं सबीजं निजि वा प्रबलाग्निलवणसंस्कारं विना प्रासुकं न भवतीति ॥ ११॥
तथा सामाचार्या नवमद्वारे कालग्रहणविधौ 'गिलिउग्गिलिए' इतिशब्देन किमुच्यते ? तत्साक्षरं प्रसाद्यमिति ? प्रश्नोऽत्रोत्तरं-मार्जारादिना | मूषिकादौ । गिलितोद्विलिते' इति गिलितस्सन्नुदिलितो-वान्तस्तस्मिन; कोऽर्थः ?-स्थानान्तरे गिलित्वा वसतेः षष्टिहस्तमध्ये आगत्य वान्तेऽस्वाध्यायो न भवतीत्यभिप्राय आवश्यकतृत्त्यादावस्तीति ॥ १२॥
Jain Education
a
nal
For Private & Personel Use Only
allinelibrary.org